________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [१], ----------------------- अध्ययनं [१] ---------------------- मूलं [४...] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
RECOGRESEARock
मानप्राणपर्याप्ति भाषामनःपर्याप्ति चोपगताः-प्राप्ता इन्द्रियैः पञ्चभिर्वेदयन्ति-अनुभवन्ति,कं ?-दुःखं, महाकुम्भीपचनादीनि दुःखकारणानीति योगः, कया कलितानि?-अशुभया वेदनया दुःखरूपयेत्यर्थः, किंभूतयेत्याह-उज्जले'त्यादि तत्रोज्वला-विपक्षलेशेनाप्यकलङ्किता बला-बलवती निवर्तयितुमशक्या विपुलासर्वशरीरावयवव्यापिनी पाठान्तरेण तिउलत्ति-त्रीन-मनोवाकायांस्तुलयति-अभिभवति या सा बितुला
उत्कटा-प्रकर्षपर्यन्तवर्तिनी खरं-अमृदुशिलावत् यद्रव्यं तत्सम्पातजनिता खरा परुषं-कर्कशं कूष्माण्डीदल& मिव यद् द्रव्यं तत्सम्पातसम्भवा परुषा प्रचण्डा-शीघ्रं शरीरव्यापिका प्रचण्डपरिवर्तितत्वाद्वा प्रचण्डा
घोरा-भगिति जीवितक्षयकारिणी औदारिकवतां, परिजीवितानपेक्षा वा ये ते घोरास्तत्प्रवर्तितत्त्वात् घोरा इति, 'बीहणगत्ति भयोत्पादिका, किमुक्तं भवति?-दारुणा, तत एतेषां कर्मधारयोऽतस्तया वेदयन्तीति
प्रकृतं, 'कि तेत्ति तयथा-कंदुः-लोही महाकुम्भी-महत्यूखा तयोः पचनं च भक्तस्येव 'पउलणं'ति पचनविशेभाषश्च पृथुकस्येव तवर्ग-तापिका तलनं च सुकुमारिकादेरिव भ्राष्ट्र-अंबरीषे भर्जनं च-पाकविशेषकरणं चण
कादेरिवेति द्वन्द्वोऽतस्तानि च लोहकटाहोत्काथनानि च इक्षुरसस्येव 'कोह'त्ति-क्रीडा तेन बलिकरणं-चण्डिकादेः पुरतो वस्तादेरिव उपहारविधानं, पाठान्तरे कोड़ा कोहकिरिया दुर्गा तस्यै च, कोहाय वा-प्राकाराय बलिकरणं तच्च कुट्टनं च-कुटिलवकरणं वैकल्यकरणं वा कुट्टेन वा चूर्णनं तानि च शाल्मल्या-वृक्षविशेषस्य तीक्ष्णाग्रा ये लोहकण्टका इव लोहकण्टकास्तेष्वभिसरणं च-आपेक्षिकमभिमुखागमनमपसरणं च-निवर्तनं
दीप
अनुक्रम
~360