________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्धः [१], ----------------------- अध्ययनं [१] ---------------------- मूलं [४...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
विश्रान्तिरहितासातवेदना दीर्घकालं यावद्वहुभिर्दुःखैः शारीरमानसर्या संकटा-सङ्खला सा दीर्घकालबहुदुःखसङ्कटा तां, नरकेषु तिर्यक्षु च या योनिरुत्पत्तिहेतुत्वात् सा नरकतिर्यग्योनिस्तां, ततश्च इतो-मनुष्यजन्मनः सकाशादायुःक्षये-मरणे सति च्युतास्सन्तः, 'तस्से' त्यादि च सूत्रं कचिदेव दृश्यते, अशुभकर्मबहुला:-कलुपकर्मप्रचराः उपपद्यन्ते-जायंते नरकेपु 'हुलिय'ति शीघ्रं महालयेषु-क्षेत्रस्थितिभ्यां महत्सु, कथंभूतेषु?-वज्र-18 मयकुड्या रुन्दा-विस्तीर्णा निःसन्धयो-निर्विवरा द्वारविरहिता-अद्वारा निम्मादेवभूमितलाश्च-कर्कशभूमयः ये नरकास्ते तथा खरामर्शा:-कर्कशस्पशाः विषमा-निनोन्नता निरयगृहसम्बन्धिनो ये चारका:-कुड्यकुटा नारकोत्पत्तिस्थानभूता येषु नरकेषु ते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु, तथा महोष्णा:-अत्युष्णा:सदाप्रतप्तानित्यतप्ता दुर्गन्धा-अशुभगन्धा विश्रा-आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते-उद्विग्नैर्भूयते येभ्यस्ते उद्वेगजनकास्ते च ते तथा तेषु, तथा बीभत्सदर्शनीयेषु-विरूपेषु नित्यं-सदा हिमपटलमिव-हिमवृन्दमिव शीतला ये ते तथा तेषु च, कालोऽवभासा-प्रभा येषां ते कालावभासास्तेषु च, भीमगम्भीराश्च ते अत एव लोमहर्षणाश्चरोमहर्षकारिणो भीमगम्भीरलोमहर्षणास्तेषु, निरभिरामेषु-अरमणीयेषु निष्प्रतीकारा-अचिकित्स्या ये व्याधयः- कुष्टायाः ज्वरा:-प्रतीताः रोगाश्च-सद्योघातिनो ज्वरशूलादयः तैः पीडिता येते तथा तेषु, इदं च | नारकधर्मांध्यारोपान्नरकाणां विशेषणमुक्तं, अतीव-प्रकृष्टं नित्यं-शाश्वतमन्धकारं येषु ते तथा तिमिस्से-13 व-तमिस्रगुहेव येऽन्धकारप्रकर्षास्ते अतीवनित्यान्धकारतमिस्राः अथवा अतीव नित्यान्धकारेण तिमिस्रव च
दीप
अनुक्रम
MERana
insurary.orm
~34~