________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [३] ---------------------- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
XXS
[२६]]
ट्राव, प्रचुरभोजनता च साधारणेऽपि पिण्डे भोजकान्तरापेक्षया बेगेन भुज्यमाने भवतीति तनिषेधायाह-न
वेगितं-पासस्य गिलने वेगवत् न त्वरितं-मुखक्षेपे न चपलं-हस्तिग्रीवादिरूपकायचलनवत् न साहसं-अवितर्कितं अत एव न च परस्य पीडाकरं च तस्सावा चेति परपीडाकरसावयं, किं बहुनोक्तेन?, तथा भोक्तव्यं संयतेन नित्यं यथा 'से' तस्य संयतस्य तद्वा तृतीयव्रतं न सीदति-न भ्रश्यति, दूरक्षं चेदं सूक्ष्मत्वादित्यत आह-साधारणपिण्डपात्रलाभे विषयभूते सूक्ष्म-सुनिपुणमतिरक्षणीयत्वादणु, किं तदित्याहअदत्तादानविरमणलक्षणेन व्रतेन यनियमनं-आत्मनो नियन्त्रणं तत्तथा, पाठान्तरे अदत्तादानान्तमितिबुद्ध्या नियमेन-अवश्यतया यद्विरमणं-निवृत्तिस्तत्तथा, एतन्निगमनायाह-एवमुक्तन्यायेन साधारणपिण्डपात्रलाभे विषयभूते समितियोगेन-सम्पकमवृत्तिसम्बन्धेन भावितो भवत्यन्तरात्मा, किंभूत इत्याह-निच'मित्यादि तथैव ४।'पंचमगंति पशम भावनावस्तु, किंतदित्याह-साधर्मिकेषु विनयः प्रयोक्तव्यः, एतदेव विषयभेदेनाह–'उबकरणपारणासु'त्ति आत्मनोऽन्यस्य वा उपकरणं-लानाद्यवस्थायामन्येनोपकारकरणं तच्च पारणा च-तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनं उपकारपारणे तयोविनयः प्रयोक्तव्यो, विनयश्चेच्छाकारादिदानेन बलात्कारपरिहारादिलक्षणः एकत्रान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः, तथा वाचना-सूत्रग्रहणं परिवर्तना-तस्यैव गुणनं तयोविनयः प्रयोक्तव्यो बन्दनादिदानलक्षणः, तथा दान-1 लब्धस्यान्नादेानादिभ्यो वितरणं ग्रहण-तस्यैव परेण दीयमानस्यादानं प्रच्छना-विस्मृतसूत्रार्थप्रश्नः एतासु
दीप अनुक्रम
(३८)
~260~