________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [३] ---------------------- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२६]]
दीप अनुक्रम
चा-अक्षया या तृष्णा-विद्यमानद्रव्याव्ययेच्छा तया यदनुगतं महेच्छं च-अविद्यमानद्रव्यविषये महाभिलाषं यन्मनो-मानसं वचनं च-वाक् ताभ्यां यत्कलुषं-परधनविषयत्वेन पापरूपमादानं-ग्रहणं तत्सुष्टु निगृहीतं|नियमितं यत्र तत्तथा, सुसंयमितमनसा-संवृतेन चेतसा हेतुना हस्तौ च पादौ च निभृती-परधनादानव्यापारादुपरती यत्र तत्सुसंयमितमनोहस्तपादनिभृतं, अनेन च विशेषणद्येन मनोवाकायनिरोधः परधनं
प्रति दर्शितः, तथा निर्ग्रन्थं-निर्गतवाद्याभ्यन्तरग्रन्थं नैष्ठिक-सर्वधर्मप्रकर्षपर्यन्तवर्ति नितरामुक्तं सर्वहरुPापादेयतयेति निरुक्तं अव्यभिचरितं वा निराश्रवं-कर्मादानरहितं निर्भयं-अविद्यमानराजादिभयं विमुक्तं
लोभदोषत्यक्तं उत्तमनरवृषभाणां 'पवरबलवग'त्ति प्रधानबलवतां च सुविहितजनस्य च-मुसाधुलोकस्य सम्मत-अभिमतं यत्तत्तथा, परमसाधूनां धर्मचरण-धर्मानुष्ठानं यत्तत्तथा, यत्र च तृतीये संवरे ग्रामाकरनगरनिगमखेटकर्बटमडम्बद्रोणमुखसंवाहपत्तनाश्रमगतं च ग्रामादिव्याख्या पूर्ववत् किश्चिदू-अनिर्दिष्टखरूपं द्रव्यं, तदेवाह-मणिमौक्तिकशिलाप्रवालकांस्यदृष्यरजतवरकनकरत्नादि, किमित्याह-पतित-भ्रष्टं 'पम्हुहीति विस्मृतं विप्रणष्टं-स्वामिर्गवेषयद्भिरपि न प्राप्त न कल्पते-न युज्यते कस्यचित् असंयतस्य संयतस्य वा कथयितुं या-प्रतिपादयितुं अदत्तग्रहणप्रवर्तनं मा भूदितिकृत्वा ग्रहीतुं वा-आदातुं तन्निवृत्तत्वात्साधोः,। यतः साधुनैवंभूतेन विहर्त्तव्यमित्यत आह-हिरण्यं-रजतं सुवर्ण च-हेम ते वियेते यस्य स हिरण्यसुवर्णिकस्तन्निषेधेनाहिरण्यसुवर्णिकस्तेन, समे-तुल्ये उपेक्षणीयतया लेष्टुकाश्चने यस्य स तथा तेन, अपरिग्रहो
(३८)
Primarary.om
~250~