________________
आगम
(१०)
प्रत
सूत्रांक [3]
–
दीप
अनुक्रम
[७]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [१]
मूलं [३]
श्रुतस्कन्ध: [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
च पञ्च च इन्द्रियाणि येषां ते तथा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पश्ञ्चेन्द्रियाश्चेत्यर्थः ततस्तान्, वि विधान् कुलभेदेन जीवान-जन्तून् प्रियजीवितान् अभिमतप्राणधारणान् मरणलक्षणस्य दुःखस्य मरणदुःखयोर्वा प्रतिकूलाः प्रतिपन्धिनो ये ते तथा तान् वराकान् तपखिनः किमित्यत आह-मन्ति-विनाशयन्ति, बहुसक्लिष्टकर्माणः सत्त्वा इति गम्यते । एवं तावद्वध्यद्वारेण प्राणवधस्य प्रकार उक्तोऽथ प्रयोजनद्वारेण स उच्यते, एभिः - वक्ष्यमाणैः प्रत्यक्षैर्विविधैः कारणैः प्रयोजनैः, 'किं ते'सि किं तत् प्रयोजनं ?, तयथेति वा, चर्म-त्वक वसा-शारीरः स्नेहविशेषः मांसं पलं मेदो- देहधातुविशेषः शोणितं रक्तं यकृद्-दक्षि णकुक्षौ मांसग्रन्थिः फिल्फिस- उदरमध्यावयवविशेषः मस्तुलिङ्ग-कपाल भेजकं हृदयं हृदयमांसं अं-पुरीतत् पित्तं-दोषविशेषः फोफसं-शरीरावयवविशेषः दन्ता-दशनाः, एतेषां द्वन्द्वः, तत एतेभ्य इदमित्येवं विगृद्यार्थशब्दो योजनीयः, चर्मादिनिमित्तमित्यर्थः तथाऽस्थीनि-कीकशानि मजा- तन्मध्यावयवविशेषः नस्याः- करजाः नयनानि लोचनानि कर्णाः - श्रवणाः 'पहारुणि'त्ति स्नायु: नक्कत्ति - नासिका घमन्यो- नाड्यः शृङ्ग-विषाणं दंष्ट्रा दशनविशेषः पिच्छं-पत्रं विषं कालकूटं विषाणं- हस्तिदन्तः बालाः केशाः एतेषां द्वन्द्वः ततस्त एव हेतुरित्येवं हेतुशब्दो योज्यः, ततः षष्ठ्यर्थे द्वितीया, ततोऽयमर्थः- अस्थिमज्जादिहेतोर्मन्तीति प्र क्रमः, तथा हिंसन्ति च बहुसङ्गक्लिष्टकर्माण इति प्रक्रमः, भ्रमराः पुरुषतया लोकव्यवहता मधुकर्यस्तु स्त्रीत्वव्यवहृतास्तद्गणान् तत्समूहान् रसेषु गृद्धा मधुग्रहणार्थमिति भावः तथैव हिंसन्त्येवेत्यर्थः, श्रीन्द्रियान्
For Penal Use On
~ 24~
ansaray or