________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [१] ------------------- मूलं [२१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
गाथा:
-प्रवचनं शासनं भगवता श्रीमन्महावीरेण सुकथितं न्यायाबाधितत्वेन आत्मनां-जीवानां हितं आत्महितं
पेचाभावियंति प्रेत्य-जन्मान्तरे भवति-शुद्धफलतया परिणमतीत्येवंशीलं प्रेत्यभाविकं आगमिष्यति काले दाभद्र-कल्याणं यतस्तदागमिष्यद्भद्रं शुद्ध-निर्दोष 'नेआउयति नैयायिकं न्यायवृत्ति अकुटिलं-मोक्षं प्रति
ऋजु अनुत्तरं सर्वेषां दुःखाना-असुखानां पापानां च तत्कारणानां व्यपशमनं-उपशमकारकं यत्तत्तथा । || अथ यदुक्तं 'तीसे सभावणाए उ किंचि वोच्छं गुणुहेस'ति तत्र का भावनाः?, अस्यां जिज्ञासायामाह
'तस्से'त्यादि सस्य-प्रथमस्य व्रतस्य भवन्तीति घटना, इमा:-वक्ष्यमाणप्रत्यक्षाः पञ्च भावना, भाव्यते-वास्यते व्रतेनात्मा यकाभिस्ता भावनाः-ईर्यासमित्यादयः, किमर्था भवन्तीत्याह-'पाणा' इत्यादि, प्रथमव्रतस्य यत्प्राणातिपातविरमणलक्षणं स्वरूपं तस्य परिरक्षणार्थाय 'पढमति प्रथम भावनावस्त्विति गम्यते, स्थाने गमने च गुणयोग-वपरप्रवचनोपघातवर्जनलक्षणगुणसम्बन्धं योजयति-करोति या सा तथा, युगान्तरे-1
यूपप्रमाणभूभागे निपतति या सा युगान्तरनिपातिका ततः कर्मधारयस्ततस्तया दृष्ट्या-चक्षुषा 'इरिपवंति BI-इरितव्य-गन्तव्यं, केनेलाह-कीटपतङ्गादयनसाश्च स्थावराश्च कीटपतङ्गबसस्थावरास्तेषु दयापरो यस्तेन, नित्यं पुष्पफलस्वरुप्रवालकन्दमूलदकवृत्तिकाबीजहरितपरिवर्जकेन सम्यगिति प्रतीतं नवरं प्रथाल:-पल्लवाकुर दकं-उदकमिति, अथेासमित्या प्रवर्त्तमानस्य यत्स्यात्तदाह-एवं खलु'त्ति एवं च ईर्यासमित्या प्रवमानस्येत्यर्थः सर्वे प्राणा सर्वे जीवा न हीलयितव्या-अवज्ञातव्या भवन्ति, संरक्षणप्रपतत्वात् न तानव
दीप अनुक्रम [३०-३५]
~222~