SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२१-२३] + गाथा: दीप अनुक्रम [ ३०-३५ ] “प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:) श्रुतस्कन्धः [२], अध्ययनं [१] मूलं [२१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०] अंग सूत्र [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः वन्तीति भाव इति प्रथमसंवराध्ययनप्रस्तावना । अथ प्रथमसंवरनिरूपणायाह- 'तत्थे'त्यादि, तत्र तेषु पश्वसु संवरद्वारेषु मध्ये प्रथमं - आद्यं संवरद्वारमहिंसा, किंभूता ? - या सा सदेवमनुजासुरस्य लोकस्य भवति, 'दीवो'न्ति द्वीपो दीपो वा यथाऽगाधजलधिमध्यमन्नानां खैरं श्वापदकदम्बकदर्धितानां महोर्मिमालामध्यमानगात्राणां त्राणं भवति द्वीपः प्राणिनां एवमियमहिंसा संसारसागरमध्यमधिगतानां व्यसनशतश्वापदपीडितानां संयोगवियोगवीचिविधुराणां त्राणं भवति, तस्याः संसारसागरोत्तारहेतुत्वात् इति अहिंसा द्वीप उक्तः, यथा वा दीपोऽन्धकारनिराकृतदृकमसराणां हेयोपादेयार्थहानोपादानविमूढमनसां तिमिरनिकरनिराकरणेन प्रवृत्त्यादिकारणं भवत्येवमहिंसा ज्ञानावरणादिकर्मतमित्रस्रंसनेन विशुद्धबुद्धिप्रभापटलप्रवर्त्तनेन प्रवृत्त्यादिकारणत्वाद्दीप उक्ता, तथा त्राणं खपरेषामापदः संरक्षणात् तथा शरणं तथैव सम्पदः सम्पादकत्वात् गम्यते श्रेयोऽर्थिभिराश्रीयते इति गतिः प्रतिष्ठन्ति आसते सर्वगुणाः सुखानि वा यस्यां सा प्रतिष्ठा तथा निर्वाणं-मोक्षस्तद्धेतुत्वात् निर्वाणं तथा निर्वृतिः - स्वास्थ्यं समाधिः- समता शक्तिः शक्तिहेतुत्वात् शान्तिर्वा-द्रोहविरतिः कीर्तिः ख्यातिहेतुत्वात् कान्तिः कमनीयताकारणत्वात् रतिश्च रतिहेतुत्वात् विरतिश्च निवृत्तिः पापात् श्रुतं श्रुतज्ञानम-कारणं यस्याः सा श्रुताङ्गा, आह च "पढमं नाणं तओ दए "त्यादि, तृप्तिहेतुत्वान्तसिः, ततः कर्मधारयः, १०, तथा दया- देहिरक्षा तथा विमुच्यते प्राणी सकलबन्धनेभ्यो यया सा विमुक्तिः तथा क्षान्तिः क्रोधनिग्रहस्तज्जन्यत्वादहिंसाऽपि क्षान्तिरुक्ता सम्यक्त्वं सम्यग्बोधिरूपमा Education Internation "अहिंसा" स्वरुपम् एवं षष्ठी - नामानि For Parts Only ~208~
SR No.004110
Book TitleAagam 10 PRASHNA VYAKARANAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy