________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ------------------ अध्ययनं [9] ------------------ मूलं [१९-२०] + वृत्ति: गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१९-२०]
२०श्रीअभयदेव वृत्तिः
अधर्मद्वारे परिग्रहकारकाः परिग्रहफलंच सू०१९
॥९५॥
+ वृत्ति : गाथा:
त्यादि कण्ठ्यं च, प्रकृतं निगमयन्नाह--'एवं च ते' इत्यादि कण्ठ्यं । यत्तन्ममायन्ते तदाह-'भवने त्यादि दा'सईदग'त्ति एतदन्तं कठ्यं च, नवरं भवनानि-भवनपतिगृहाणि गृहाण्येव वा चाहनानि-गजादीनि यानानि-शकटविशेषाः विमानानि-ज्योतिषकवैमानिकदेवसम्बन्धिगृहाणि यानविमानानि च-पुष्पकपालकादीनि नानामणीनां सम्बन्धी पश्चवर्णों दिव्यश्च यः स नानामणिपश्चवर्णदिव्यस्तं च भाजनविधि-भाजनजातं तथा नानाविधानि कामेन-खेच्छया रूपाणि येषां ते तथा विकुर्विता-वस्त्रादिभिः कृतविभूषा येऽप्सरोगणानां सातास्ते तथा, ततः कर्मधारयोऽतस्तान्नानाविधकामरूपविकुर्विताप्सरोगणसंघातान, 'चेदयाणिति चैत्यवृक्षान् आरामादीनां विशेषः प्राग्वदवगन्तव्यः 'कित्तणाई ति की|ते-संशब्धते यैः कारपिता तानि कीर्त-| नानि-देवकुलादीन्येव तानि च ममायन्ते इति प्रकृतं, ततश्च परिगृह्य परिग्रहं, किम्भूतमित्याह-विपुलद्रव्यसारं-प्रभूतवस्तुप्रधानं 'देवावि सईदग'त्ति सइन्द्रका अपि देवाः, इन्द्रा देवाब किल महर्द्धयो वाञ्छिता-IN हार्थप्रासिसमर्था दीर्घायुषश्च भवन्ति न च ते तथाविधा अपि सन्तस्तुट्यादिकं लभन्ते कुतः पुनरितरे इति
प्रतिपादनार्थ देवावि सईदगा इत्युक्तमिति, 'न तित्तिं न तुहि उवल भति'त्ति तृप्ति-इच्छाविनिवृत्तिं तुष्टिंतोषमानन्दं न लभन्ते अपरापरविशेषप्रात्याकाङ्खाबाधितत्वात्, किम्भूतास्ते इत्याह-अत्यन्तविपुललोभाभिभूता संज्ञा-संज्ञानं येषां ते तथा, वर्षधरेषु-हिमवदादिषु पर्वतेषु इषुकारेषु-धातकीखण्डपुष्करवरद्वीपार्द्धयोः पूर्वापरार्द्धकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु वृत्तपर्वतेषु-शब्दापातिविकटापात्यादिषु वर्तुलविजयाई
CAKRA
दीप अनुक्रम [२३-२९]
॥९५॥
~193~