________________
आगम
(१०)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[१९]
“प्रश्नव्याकरणदशा”
प्रश्नव्याकर० श्रीअभयदेव०
वृत्तिः
॥ ८४ ॥
-
अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययनं [४]
मूलं [... १५]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०] अंग सूत्र [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तालुजिहे यासां तास्तथा, करवीरमुकुलमिवाकुटिला-अवक्रा कचिदभ्युन्नता अग्रे उच्चा ऋजु - सरला तुङ्गा च - उच्चा तदन्यत्र मासा घोणो यासां तास्तथा, शरदि भवं शारदं नवकमलं च-आदित्यबोध्यं कुमुदं चचन्द्रविकाश्यं कुवलयं च नीलोत्पलं पद्मं एषां यो दलनिकरस्तत्सदृशे लक्षणप्रशस्ते अजिले-अमन्दे कान्ते नयने यासां तास्तथा, आनामितचापवदुचिरे कृष्णाभ्रराज्या सङ्गते - अनुगते सदृश्यावित्यर्थः सुजाते तनू कृष्णे स्निग्धे च भ्रुवौ यासां तास्तथा, आलीनप्रमाणयुक्तश्रवणाः सुश्रवणा इति च प्राग्वत्, पीना उपचिता मृष्टा-शुद्धा गण्डरेखा-कपोलपाली यासां तास्तथा, चतुरङ्गुलं- चतुरङ्गुलमानं विशालं विस्तीर्ण समं- अविधमं ललाटं यासां तास्तथा, कौमुदी - कार्त्तिकी तस्या यो रजनीकरः- चन्द्रस्तद्वद्विमलं परिपूर्ण सौम्यं च वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गाः अकपिलसुस्निग्धदीर्घशिरोजा इति कण्ट्यं, छथं १ ध्वजः २ यूपः ३ स्तूपः ४ एतान्यन्यान्यपि प्रायः प्रसिद्धानि 'दामणि'त्ति रूढिगम्यं ४ कमण्डलु ६ कलशो ७ वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः कच्छपः १३ रथवरो १४ मकरध्वजः कामदेवः १५ अंको- रूढिगम्यः १६ स्थालं १७ अङ्कुशः १८ अष्टापदं यूतफलकं १९ सुप्रतिष्ठकं -स्थापनक २० (अमर: ) मयूरः अमरो वा २१ श्रियाऽभिषेको-लक्ष्म्यभिषेकः २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरप्रवरभवनं- वराणां प्रवरगेहं २६ गिरिवरः २७ वरादर्श:- वरदर्पणः २८ सललिताश्च - लीलावन्तो ये गजाः २९ ऋषभः ३० सिंह ३१ स्तथा चामरं ३२ एतानि प्रशस्तानि द्वात्रिंशलक्षणानि धारयन्ति यास्तास्तथा, हंससदक्षगतयः कोकिलमधुरगि
For Parts Only
~ 171~
196 969
४ अधर्म
द्वारे माण्डलि - कदेवकुरुतरवर्णनं
सू० १५
॥ ८४ ॥