________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] --------- -------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१५]
तथा सा च रविकिरणैस्तरुणैयोंधितं आकोशायमानं-विमुकुलीभवत् यत्पनं तद्वत् गम्भीरा विकटा च
नाभिर्यासां तास्तथा, अनुटो-अनुल्वणी प्रशस्ती-सुजातो पीनी च-उपचितौ कुक्षी यासां तास्तथा, सन्नभातपाश्वोदिविशेषणानि पूर्ववत् अकरंडका-अनुपलक्ष्यपृष्ठास्थिका कनकरुचकवत्-सुवर्णरुचिवन्निमेंला सु
जाता निरूपहता च गात्रयष्टिर्यासां तास्तथा, काञ्चनकलशयोरिव प्रमाणं ययोस्ती तथा तौ समी-तुल्यौ सं. हिती-संहती लष्टचुचुकामेलको-शोभनस्तनमुखशेखरौ यमलौ-समश्रेणीको 'युगल'त्ति युगलरूपी वर्तितोवृत्ती पयोधरौ-स्तनौ यासा तास्तथा, भुजङ्गवत्-नागवदानुपूर्येण-क्रमेण तनूकौ-लक्षणी गोपुच्छवद्वृत्ती समौ-तुल्यौ संहिता-मध्यकायापेक्षया विरलौ नमिती-नम्रौ आदेया-सुभगौ लडही-ललितौ वाह-भुजौ। यासां तास्तथा, ताम्रनखाः मांसलाग्रहस्ताः कोमलपीवरवरानुलीकाः स्निग्धपाणिरेखाः शशिसूरशङ्खचक्रवरस्वस्तिकविभक्तमुविरचितपाणिरेखाश्चेति कण्ठ्यानि, पीनोन्नते कक्षे-भुजमूले बस्तिप्रदेशश्च-गुह्यदेशो यासां परिपूर्णः गलकपोलश्च यासांतास्तथा, चतुरङ्गुलमुप्रमाणा कम्बुवरसदृशी-वरशकतुल्या ग्रीवा यासां ता
स्तथा, मांसलसंस्थितप्रशस्तहनुकाः, हनु-चिबुकं, शेष कण्ठ्यं, दाडिमपुष्पप्रकाशो रक्त इत्यर्थः, पीवर:-उपचितः प्रिलम्बा-ईषल्लम्बमानः कुश्चित:-आकुश्चितो वर:-प्रधानोऽधर:-अधस्तनो दशनच्छदो यासा तास्तथा, सु-
न्दरोत्तरोष्ठा इति कण्ठ्यं, दधिवत् दकरजोवत् कुन्दवचंद्रवत् वासन्तिका-वनस्पतिविशेषस्तस्था मुकुलं-कोरकं तद्वच्च अच्छिद्रा-अविरला निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्त पद्मपत्रवच सुकुमाले
दीप
अनक्रम [१९]]
~170~