SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] “प्रश्नव्याकरणदशा” - प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], अध्ययनं [४] मूलं [१५...] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०] अंग सूत्र [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ७० ॥ | मकरो-जलचरविशेषः हारः-प्रतीतः 'गागर'ति स्त्रीपरिधानविशेषः नूपुरं पादाभरणं नगः- पर्वतो नगरंप्रतीतं वैरं वज्रं किन्नरो वायविशेषो देवविशेषो वा मयूरवर राजहंससारसचकोरचक्रवाकमिथुनानि प्रसि द्वानि चामरं प्रकीर्णकं खेटकं फलकं पब्बीसकं विपक्षी वाद्यविशेषी वरतालवृन्तं व्यञ्जनविशेषः श्रीकाभिषेको-लक्ष्म्यभिषेचनं मेदिनी पृथ्वी खड्गः-असि अङ्कुशध-सृणिर्विमलकलशो भृङ्गारश्च भाजनविशेषः बर्डमानकं शरावं पुरुषारूढः पुरुषो वा एतेषां द्वन्द्वः तत एतानि प्रशस्तानि माङ्गल्यानि उत्तमानि - प्रधानानि ॐ विभक्तानि च विविक्तानि यानि वरपुरुषाणां लक्षणानि तानि धारयन्ति ये ते तथा, तथा द्वात्रिंशता राजवराणां सहस्रैरनुयातः- अनुगतो मार्गों येषां ते तथा चतुःषष्टिः सहस्राणि यासां तास्तथा ताम्र ताः प्रवरयुवतयश्च तरुण्य इति समासः तासां नयनकान्ताः- लोचनाभिरामाः परिणयनभर्त्तारो वा रक्ता-लोहिता आभा-प्रभा येषां ते रक्ताभाः 'पमपम्ह'त्ति पद्मगर्भाः कोरण्टकदाम- कोरण्टकाभिधानपुष्पत्रक चम्पकः- कुसुमविशेषः सुतप्तवरकनकस्य यो निकषो-रेखा स तथा तत एतेषामिव वर्णो येषां ते तथा, सुजातानि सुनिष्पन्नानि सर्वा व्यङ्गानि अवयवा यत्र तदेवंविधं सुन्दरमङ्गं शरीरं येषां ते तथा महार्घाणि - महामूल्यानि वरपतनोनतानि-प्रवरक्षेत्रविशेषोत्पन्नानि विचित्ररागाणि विविधरागरञ्जितानि एणी-हरिणी प्रेणी च-तद्विशेष एव तचम्र्मनिम्मितानि यानि वस्त्राणि तानि एणीप्रेणीनिर्मितानि उच्यन्ते, श्रूयन्ते च निषीथे 'कालमृगाणि नी| लमृगाणि चेत्यादिभिर्वचनैर्मृगचर्मवस्त्राणीति, तथा दुकूलानीति दुकूलो वृक्षविशेषस्तस्य वल्कं गृहीत्वा For Park Lise Only ~ 143~ ४ अधर्म द्वारे मैथुनासेविनः चक्रवर्त्ति वर्णनं सू० १५ ॥ ७० ॥
SR No.004110
Book TitleAagam 10 PRASHNA VYAKARANAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy