________________
आगम
(१०)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम
[१८]
अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययनं [ ४ ]
मूलं [१४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्र.व्या. १२
Eraton
"प्रश्नव्याकरणदशा"
अब्रह्मन: त्रिंशत् नामानि
-
|विष्यसी ॥१॥" ति ६ वाधना बाधहेतुत्वात् केषामित्याह - 'पदानां' संगमस्थानां प्रजानां वा-लोकानां, आह च - "यचेह लोकेऽधपरे नराणामुत्पद्यते दुःखमसह्यवेगम् । विकाशनीलोत्पल चारुनेत्रा, मुक्त्वा स्त्रियस्तत्र न हेतुरन्यः ॥ १ ॥” ७ दप-देहहसता तज्जन्यत्वादस्य दर्प इत्युच्यते, आह च - "रसा पगामं न निसेवियव्वा, पायं रसा दितिकरा हवंति। दित्तं च कामा समभिद्दवन्ति, दुमं जहा साउफलं तु पक्खी ॥ १ ॥ ” [रसाः प्रकामं न निषेवितव्याः प्रायो रसा दृप्तिकरा भवन्ति । दृप्तं च कामाः समभिद्रवन्ति द्रुमं यथा खादुफलं तु पक्षिणः ॥ १ ॥ ] अथवा दणः- सौभाग्याद्यभिमानस्तत्प्रभवं चेदं नहि प्रशमान्याद्वा पुरुषस्यात्र प्रवृत्तिः सम्भवतीति दर्प एवोच्यते, तदुक्तम्- "प्रशान्तवाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः । मैथुनव्यतिरेकिण्यो, यदि रागं न मैथुनम् ॥ १ ॥” ८ मोहो-मोहनं वेदरूपमोहनीयोदय सम्पाद्यत्वादस्याज्ञानरूपत्वाद्वा मोह इत्युच्यते, आह च- "दृइयं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवर पूर्ण चन्द्रकलश श्रीमलता पल्लवानारोप्याशुचिराशिपु प्रियतमागात्रेषु यन्मोदते ॥१॥" ९ मनः संक्षोभः - चित्तचलनं तद्विनेदं न जायते इति तदेवोच्यते, उच्यते च "निकडकडक्खकंडप्पहारनिभिन्नजोगसन्नाहा । महरिसिजोहा जुवईण जंति सेवं विगवमोहा ॥१॥" [. निकृष्टकटाक्षकाण्डप्रहारनिर्भिन्नयोगसन्नाहाः। महर्षयो योद्धारो युवतीनां सेवां यान्ति विगतमोहाः ॥ १ ॥ उपशान्तमोहा अपि ] १० अनिग्रहः-अनिषेधो मनसो विषयेषु प्रवर्त्तमानस्येति गम्यते, एतत्प्रभवत्वाच्चास्यानिग्रह इत्युक्तं ११
For Parts Only
~136~