SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१२] दीप अनुक्रम [१६] “प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्तिः) - श्रुतस्कन्ध: [१], अध्ययनं [३] मूलं [१२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः द्वेगकरं अनवक्पारं विस्तीर्णस्वरूपं महाभयादिविशेषणत्रयमेकार्थ अपरिमिता अपरिमाणा ये महेच्छाबृहदभिलाषा अविरतलोकास्तेषां कलुषा-अविशुद्धा या मतिः स एव वायुवेगस्तेन उद्धम्ममाणत्ति उत्पा यमानं यत्तत्तथा तस्य, आशा- अप्राप्तार्थसम्भावना पिपासा च प्रासार्थाकाङ्क्षास्ता एवं पातालाः- पातालकलशाः पाताल वा समुद्रजलतलं तेभ्यस्तस्माद्वा कामरतिः शब्दादिष्वभिरतिः रागद्वेषबन्धनेन बहुविधसङ्कल्पाश्चेति दन्द्रः, तल्लक्षणस्य विपुलस्योदकरजसः- उदकरेणोर्यो रयो- वेगस्तेनान्धकारो यः स तथा तं, कलु पमतिवातेनाशादिपातालादुत्पाद्यमानका मूख्या युद्धकरजोरयोऽन्धकारमित्यर्थः, मोह एव महावर्त्ती मोहमहावर्त्तस्तत्र भोगा एव-कामा एव भ्राम्यन्तो मण्डलेन सञ्चरन्तो गुप्यन्तो व्याकुलीभवन्तः उदूलन्त उच्छ लन्तो बहवः प्रचुराः गर्भवासे- मध्यभागविस्तारे प्रत्यवनिवृत्ताश्च- उत्पत्य निपतिताः प्राणिनो यत्र जले त तथा, तथा प्रधावितानि इतस्ततः प्रकर्षेण गतानि यानि व्यसनानि तानि समापन्नाः प्राप्ता ये ते पाठान्तरेण प्रबाधिताः पीडिता ये व्यसनसमापन्ना- व्यसनिनस्तेषां यद् रुदितं प्रलपितं तदेव चण्डमारुतस्तेन समाहूतममनोज्ञं वीचिव्याकुलितं भङ्गैः तरङ्गैः स्फुटन-विदलन अनिष्ठितैः कल्लोले:-महोर्मिभिः सङ्कुलं च जलं - तोयं यत्र स तथा तं महामोहावर्त्त भोगरूपभ्राम्यदादिविशेषणप्राणिकं व्यसनसमापन्नरुदितलक्षणचण्डमारुतसमाहतादिविशेषणं जलं यत्रेत्यर्थः, प्रमादा-मयादयस्त एव बहवचण्डा-रौद्रा दुष्टाः क्षुद्राः श्वापदा-व्याघ्राद्यस्तैः समाहता - अभिभूता ये 'उद्धायमाण'त्ति उत्तिष्ठन्तो विविधचेष्टासु समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरु For Pale Only ~126~ andiary.org
SR No.004110
Book TitleAagam 10 PRASHNA VYAKARANAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy