SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [११] दीप अनुक्रम [१५] “प्रश्नव्याकरणदशा” - अंगसूत्र -१० ( मूलं + वृत्ति:) अध्ययनं [३] मूलं [११] श्रुतस्कन्ध: [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ४८ ॥ भस्तलं पत्र स तथा तत्र सङ्ग्रामे, तथा 'स्कूटप्रहरणे' स्फुटानि - व्यक्तानि प्रहरणानि यत्र स तथा तत्र सङ्ग्रामे, तथा महारणस्य सम्यन्धीनि यानि शङ्खश्च भेरी च-दुन्दुभीः वरतूर्य-लोकप्रतीतं तेषां प्रचुराणां पडूनां स्पष्टध्वनीनां पटहानां च पटहकानां आहतानां आस्फालितानां निनादेन ध्वनिना गम्भीरेण बहलेन ये नन्दिता हृष्टा प्रक्षुभिताच भीतास्तेषां विपुलो विस्तीर्णो घोषो यत्र स तथा तत्र, हयगजरथयोद्धेभ्यः सकाशात् त्वरितं शीघ्रं प्रसृतं प्रसरमुपगतं यद्रजो धूली तदेवोद्धततमान्धकारं - अतिशयप्रबलतमित्रं तेन बहुलो ४ यः स तथा तत्र, तथा कातरनराणां नयनयोर्हृदयस्य च 'वाउल'त्ति व्याकुलं क्षोभं करोतीत्येवंशीलो यः स तथा तत्र तथा विलुलितानि - शिथिलतया चञ्चलानि यान्युत्कटघराणि-उन्नतप्रवराणि मुकुटानि-मस्तकाभरणविशेषास्तिरीदानि च-तान्येव शिखरत्रयोपेतानि कुण्डलानि च कर्णाभरणानि उडदामानि च-नक्षत्रमालाभिधानाभरणविशेषास्तेषामाटोपः स्फारता सा विद्यते यत्र स विलुलितोत्कटवर मुकुटतिरीटकुण्डलोहृदामाटोपिक इति, तथा प्रकटा या पताका उच्छ्रिता ऊद्धीकृता ये ध्वजा - गरुडादिध्वजा वैजयन्त्यश्च-विजयसूचिकाः पताका एव चामराणि च चलन्ति छत्राणि च तेषां सम्बन्धि यदन्धकारं तेन गम्भीरः-अलव्धमध्यो यः स तथा ततः कर्मधारयस्ततस्तत्र, तथा हयानां यत् हेषितं शब्दविशेषः हस्तिनां च यद् गुलुगुलायितं शब्दविशेष एव तथा रथानां यत् 'घणघणाइय'त्ति घणघणेत्येवंरूपस्य शब्दस्य करणं तथा 'पाइक'ति पदातीनां यत् 'हरहराइय'त्ति हरहरेतिशब्दस्य करणं आस्फोटितं च-करास्फोदरूपं सिंहनादश्च - सिंहस्येव प्रश्नव्याक२० श्रीअ भयदेव० वृत्तिः Educati For Parts Only ~99~ ३ अधर्म द्वारे अदत्तादानकारकाः सू० ११ ॥ ४८ ॥ antrary
SR No.004110
Book TitleAagam 10 PRASHNA VYAKARANAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy