________________
आगम
(०७)
“उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [१],
------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
इत्यभिप्रायेण व्रतसापेक्षत्वात् ४, 'तप्पडिरूवगववहारे' चि तेन अधिकृतेन प्रतिरूपकं सदृशं तत्पतिरूपकं तस्य विविधमवहरणं । व्यवहारः-प्रक्षेपस्तत्प्रतिरूपकव्यवहारः, यद्यत्र घटते व्रीहिघृतादिषु पलञ्जीवसादि तस्य प्रक्षेप इतियावत् , तत्पतिरूपकेन वा वसादिना
व्यवहरणं तत्प्रतिरूपकव्यवहारः, अतिचारता चास्य पूर्ववत् ५। 'सदारसन्तोसीए' ति खदारसन्तुष्टेरित्यर्थः, 'इत्तरियपरिग्गहिमायागमणे ति इत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता-भाटीपदानेन कियन्तमपि कालं दिवसमासादिक स्ववशीकृतेत्यर्थः,10
तस्यां गमनं-मैथुनासेवनमित्वरपरिगृहीतागमनं, अतिचारता चास्यातिक्रमादिभिः १, 'अपरिग्गहियागमणे' ति अपरिगृहीता नाम वेश्या अन्यसत्कपरिगृहीतभाटिका कुलाङ्गना वा अनाथेति, अस्याप्यतिचारताऽतिक्रमादिभिरेव २, 'अणङ्गकीड' चि अनङ्गानिमैथुनकर्मापेक्षया कुचकुक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा, अतिचारता चास्य स्वदारेभ्योऽन्यत्र मैथुनपरिहारेणानुरागादालिङ्गन्नादि विदधतो व्रतमालिन्यादिति ३, 'परविवाहकरणे ति परेषाम्-आत्मन आत्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणं, अयमभिप्रायः-स्वदारसन्तोषिणो हि न युक्तः परेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकलयतः परार्थकरणोद्यततयाऽतिचारोऽयमिति४ , कामभोगतिव्वाभिलासे ति कामौ शब्दरूपे भोगाः-गन्धरसस्पर्शास्तेषु तीब्राभिलाषः अत्यन्तं - तदध्यवसायितं कामभोगतीवाभिलाषः, अयमभिप्रायः स्वदारसन्तोषी हि विशिष्टविरतिमान् , तेन च तावत्येव मैथुनासेवा कर्तुमुचिता यावत्या वेदजनिता बाधोपशाम्यति, यस्तु वाजिकरणादिभिः कामशास्त्रविहितप्रयोगैश्च तामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स |मैथुनविरतिव्रतं परमार्थतो मलिनयति, को हि नाम सकर्णकः पामामुत्पाद्याग्निसेवाजनितं सुखं वाञ्छेदिति अतिचारत्वं कामभोगतीवाभिलापस्येति ५। 'खेत्तवत्थुपमाणाइक्कमे त्ति क्षेत्रवस्तुनः प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतमानोल्लङ्घनमित्यर्थः,एतस्य चातिचार
अनुक्रम
REaantamana
PRIMasturare.org
| सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं
~ 18~