SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (०७) प्रत सूत्रांक [७] दीप अनुक्रम [s] “उपासकदशा” - अंगसूत्र - ७ (मूलं + वृत्ति:) अध्ययन [ १ ], मूलं [७] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०७], अंग सूत्र [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ति असद्भूतार्थस्य लेखस्य विधानमित्यर्थः, एतस्य चातिचारत्वं प्रमादादिना दुर्विवेकत्वेन वा 'मया मृषावादः प्रत्याख्यातोऽयं तु कूटलेखो, न मृषावादनम्' इति भावयत इति ५, वाचनान्तरे तु 'कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिज्जं सन्धिकरणे' त्ति पठ्यते, आवश्यकादौ पुनरिमे स्थूलमृपावादभेदा उक्ताः, ततोऽयमर्थः सम्भाव्यते एते एव प्रमादसहसाकाराना भोगैरभिधीयमाना मृषावादविरतेरतिचारा भवन्ति, आकुट्ट्या तु भङ्गा इति एतेषां चेदं स्वरूपम् कन्या- अपरिणीता स्त्री तदर्थमलीकं | कन्यालीकं तेन च लोकेऽतिगर्हितत्वादिहोपात्तेन सर्व मनुष्यजातिविषयमलीकमुपलक्षितं, एवं गवालीकमपि चतुष्पदजात्यलीकोपलक्षणं, भूम्यलीकमपदानां सचेतनाचेतनवस्तूनामलीकस्योपलक्षणं, न्यासो-द्रव्यस्य निक्षेपः, परैः समर्पितं द्रव्यमित्यर्थः, तस्यापहारः - अपल पर्न न्यासापहारः, तथा कूटम्-असद्भूतमसत्यार्थसंवादनेन साक्ष्यं साक्षिकर्म कूटसाक्ष्यं, कस्मिन्नित्याह-'सन्धिकरणे' द्वयोर्विवदमानयोः सन्धानकरणे, विवादच्छेद इत्यर्थः, इह च न्यासापहारादिद्वयस्य आद्यत्रयान्तर्भावेऽपि प्रधानविवक्षयाऽपह्नवसाक्षिदानक्रिययोर्भेदेनोपादानं द्रष्टव्यमिति । 'तेणाहडे' त्ति स्तेनाहृतं - चौरानीतं, तत्समर्धमिति लोभात्काणक्रयेण गृहतोऽतिचरति तृतीयव्रतमित्यविचारहेतुत्वात् स्तेनाहृतमित्यतिचार उक्तः, अतिचारता चास्य साक्षाचौर्यामवृत्तेः १, 'तक्करप्पओगे' त्ति तस्करप्रयोगचैौरव्यापारणं, 'हरत यूयम्' इत्येवमभ्यनुज्ञानमित्यर्थः, अस्याप्यतिचारतानाभोगादिभिरिति २, 'विरुद्धरज्जाइक्कमे' ति विरुद्ध नृपयो राज्यं तस्यातिक्रमः - अतिलवनं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातः, चौर्यबुद्धिरपि तस्य तत्र नास्तीति, अतिचारताऽस्यानाभोगादिना इति ३, 'कूडतुलकूडमाणे' ति तुला-प्रतीता मानं कुडवादि कूटत्वं न्यूनाधिकत्वं ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां गृहतो ऽतिचरति व्रतमिति अतिचारहेतुत्वादविचारः कूटतुलाकूटमानमुक्तः, अतिचारत्वं चास्यानाभोगादेः, अथवा 'नाहं चौरः क्षत्रखननादेरकरणात्' Education International उपासक दशाङ्गे ॥ ७ ॥ सम्यक्त्व एवं द्वादश व्रतानां अतिचार वर्णनं ~ 17~ आनन्दा ध्ययनं व्रतातिचारोपदेशः ॥ ७ ॥ way or
SR No.004107
Book TitleAagam 07 UPASAK DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages113
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy