SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२३] दीप अनुक्रम [३१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [१], मूलं [२३] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'इच्छिए'ति इष्टः, 'पडिच्छिए 'ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः अभिरुचितः खादुभावमिवोपगतः 'आगाराओ' ति गेहात् निष्कम्यानगारितां साधुतां प्रव्रजितुं मे, 'मणोमाणसिएणं ति मनसि भवं यन्मानसिकं तन्मनोमानसिकं तेन अबहिवृत्तिनेत्यर्थः, तथा स्वेदागताः- आगतस्वेदा रोमकूपा येषु तानि स्वेदागतरोमकूपाणि तत एव प्रगलन्ति-क्षरन्ति विलीनानि चविनानि गात्राणि यस्याः सा तथा शोकभरेण प्रवेपिताङ्गी - कम्पितगात्रा या सा तथा, निस्तेजा, दीनस्येव - विमनस इव वदनं वचनं वा यस्याः सा तथा तत्क्षणमेव प्रव्रजामीति वचनश्रवणक्षणे एव अवरुग्णं म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निश्छाया - गतश्रीका व या सा तथेति, पदचतुष्टयस्य कर्मधारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतबाहुत्वात्पतन्ति - विगलन्ति खुम्मियन्ति-भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च-भूपातादेव भग्नानि धवलवलयानि यस्याः सा तथा प्रभ्रष्टमुत्तरीयं च यस्याः सा तथा ततः पदत्रयस्य कर्मधारयः, सुकुमारो | विकीर्णः केशहस्तः- केशपाशो यस्याः सा तथा सूर्च्छाविशानष्टे चेतसि सति गुर्वी - अलघुशरीरा या सा तथा, परशुनिकृत्तेव | चम्पकलता कुट्टिमतले पतितेति संबन्धः, निवृत्तमहेवेन्द्रयष्टिः- इन्द्रकेतुर्वियुक्त सन्धिबन्धना-लथीकृतसन्धाना घसतीत्यनुकरणे ससंभ्रमं व्याकुलचित्ततया 'उवतियाए 'ति अपवर्त्तितया क्षिप्तया त्वरितं शीघ्रं काश्वनभृङ्गारमुखविनिर्गता या शीतलजलविमलधारा तया परिषिच्यमाना निर्वापिता शीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः, उत्क्षेपकोवंशदलादिमयो मुष्टिग्राह्यो दण्डमध्यभागः तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं पत्तछोट इत्यर्थः, तदाकारं वा धर्ममयं वीजनकं तु-वंशादिमयमेवान्तर्ब्राह्मदण्डं एतैर्जनितो यो वातस्तेन 'सफुसिएणं' सोदकबिन्दुना अन्तःपुरजनेन समाश्वासिता सती मुक्ता Education Internation For PalPrsata Use Only ~98~ waryra
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy