________________
आगम
(०६)
प्रत
सूत्रांक
[८,९]
दीप
अनुक्रम [११,१२]
“ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः )
श्रुतस्कन्धः [१]
अध्ययनं [१],
मूलं [८,९]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ १५ ॥
रको मलको नवतः कुशक्तो लिम्बः सिंहकेसर चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम् - आच्छादितं यत्तत्तथा, इह चास्तरको लोकप्रतीत एव मलककुंशक्तौ तु रूढिगम्यौ नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो बालोर अस्योर्णायुक्ता कृतिः सिंहकेसरो- जटिल कम्बला, तथा सुष्ठु विरचितं शुचि वा रचितं रजस्त्राणं- आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथां तत्र, रक्तांशुकसंवृते- मशकगृहाभिधानवस्त्रावृते सुरम्ये तथा आजिनकं चर्ममयो वस्त्रविशेषः स च खभावादतिकोमलो भवति तथा रूतं- कर्पासपक्ष्म यूरो- वनस्पतिविशेषः नवनीतं प्रक्षणं एभिस्तुल्यः स्पर्शो यस्य, तूलं वा अर्कतूलं तत्र पक्षे एतेषामिव स्पर्शो यस्य तत्तथा तत्र, पूर्वरात्रश्वासावपररात्रश्च पूर्वरात्रापररात्रः स एव काललक्षणः समयः न तु सामाचारादिलक्षणः पूर्वरा त्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः इह चार्षवादेकरेफलोपेन 'पुवरत्तावर'ते' त्युक्तं, अप[र] रात्रशब्दो वाऽयमिति, सुप्तजागरा-नातिसुप्ता नातिजाग्रती, अत एवाह 'ओहीरमाणी २त्ति वारं वारमीपनिद्रां गच्छन्तीत्यर्थः, एकं महान्तं सप्मोत्सेधमित्यादिविशेषणं मुखमतिगतं गजं दृष्ट्वा प्रतिबुद्धेति योगः, तत्र सतोत्सेधं सप्तसु - कुम्भादिषु स्थानेषूत्रतं सप्तहस्तोच्छ्रितं वा 'रय यंति रूप्यं 'नहयलंसित्ति नभस्तलान्मुखमतिगतमिति योगः, वाचनान्तरे खेवं दृश्यते- 'जाव सीहं सुविणे पासित्ता गं पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यं 'एकं च णं महंत पंडुरं धवलयं सेयं' एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्थ, एतदेवोपमानेनाह- 'संखउल विमलदहिघणगोखीर (विमल) फेणरयणिकरपगासं' शंखकुलस्येव विमलदश इवं धनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाशः-प्रभा यस्य स तथा तं, अथवा 'हाररजतखीरसागरदगरयमहासेलपंडुरतरोरुरमणिजदरिसणिज्वं' हारादिभ्यः पाण्डरतरो यः स तथा, इह च महाशैलो-महाहिमवान् तथा उरुः- विस्तीर्णः रम
Education Internation
राज्ञी - धारिणी एवं तस्याः स्वप्नं
For Pasta Lise Only
~33~
धारिण्याः स्वमः सूत्र ९
।। १५ ।।
waryra