________________
आगम
(०६)
प्रत
सूत्रांक
[८,९]
दीप
अनुक्रम [११,१२]
“ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः )
अध्ययनं [१],
मूलं [८,९ ]
श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
दामभिः - स्रग्भिः सुष्ठु विरचिता द्वारशोभा यस्य तत्तथा तस्मिन् तथा सुगन्धिवरकुसुमैर्मृदुकस्य मृदोः पक्ष्मलस्य च - पक्ष्मवतः शयनस्य- तूल्यादिशयनीयस्य यः उपचारः--पूजा उपचारो वा स विद्यते यस्मिन् मण इत्यस्य मत्वर्थीयत्वात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवतच यद् हृदयनिर्वृतिकरं च मनःस्वास्थ्यकरं तत्तथा तस्मिन् तथा कर्पूरव लवङ्गानि चफलविशेषाः मलयचन्दनं च पर्वतविशेषप्रभवं श्रीखण्डं काला गुरुव-कृष्णागरुः प्रवरकुन्दुरुक्कं च-चीडाभिधानो गन्धद्रव्य विशेषः तुरुष्कं च- सिल्हकं धूपश्च गन्धद्रव्यसंयोगज इति द्वन्द्वः, एतेषां वा संबन्धी यो धूपः तस्य दद्यमानस्य सुरभिर्यो मघमघायमान:- अतिशयवान् गन्धः उद्भूतः उद्भूतः तेनाभिरामम् - अभिरमणीयं यत्तत्तथा तस्मिन् तथा सुष्ठु गन्धवराणां -प्रधान चूर्णानां गन्धो यस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तस्मिन् तथा गंधवतिः - गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्त्तिस्तद्भूते-सौरभ्यातिशयात्चत्कल्पे, तथा मणि किरणप्रणाशितान्धकारे, किं बहुना वर्णकेन ?, वर्णकसर्वस्वमिदं त्या गुणैश्च सुरवरविमानं विडम्बयति जयति यद्वरगृहकं तत्तथा तत्र तथा तस्मिन् तादृशे शयनीये सहालिङ्गनवर्या-शरीरप्रमाणोपधानेन यतत्सालिङ्गनवर्त्तिकं तत्र, 'उभओ विषोयणे' ति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य 'विद्योयणेति उपधाने यत्र तत्तथा तस्मिन्, 'दुहओ'ति उभयतः उन्नते मध्ये नतं च तनिम्नताद्गभीरं च महत्त्वान्नतगम्भीरं अथवा मध्येन च भागेन तु गम्भीरे-अवनते गङ्गापुलिनवालुकायाः अवदात:- अवदलनं पादादिन्यासेऽधोगमनमित्यर्थः तेन 'सालिसए'ति सदशकमतिनम्रखाद्यत्तत्तथा तत्र दृश्यते च हंसतुल्यादिष्वयं न्याय इति । तथा 'उयचिय'त्ति परिकर्मितं यत् क्षौमं दुकूलं कार्पासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः एकः शाटकः स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तत्र तथा आस्त
Education Internation
राज्ञी - धारिणी एवं तस्याः स्वप्नं
For Peaks On
~32~