________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ------------------ अध्ययनं [८], ----------------- मूलं [७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सत्राक
[७८]
शतितम पुरुष एवं युग पुरुषयुगं विंशतितम प्रतिशिष्यं यावदित्यर्थः युगान्तकरभूमिमल्लिजिनस्वाभवत् । मल्लिजिनादारभ्य। तत्तीर्थे विंशतितमं पुरुषं यावत् साधवः सिद्धास्ततः परं सिद्धिगमनव्यवच्छेदोऽभूदिति हृदयं, 'दुवासपरियाए'ति द्विवर्ष- पर्याये केवलिपर्यायापेक्षया भगवति जिने सति अन्तमकार्षीत-भवान्तमकरोत् तत्तीर्थे साधु रात् कथिदपीति, 'दुमासपरियाए' इति कचित् कचिच 'चउमासपरियाए' इति दृश्यते, 'वग्धारियपाणी'ति प्रलम्बितभुजा, 'जहा जंबुद्दीवपन्नत्तीए'त्ति यथा जम्बूद्वीपप्रज्ञायां ऋषभस्य निर्वाणमहिमोक्तस्तथेह मल्लिजिनस वाच्य इत्यर्थः, स चैवमर्थता-यत्र समये || मल्लिरहेन् कालगतो व्यतिक्रान्तः समुद्घातः छिन्नजातिजरामरणबन्धनः सिद्धः तत्र समये शक्रवलितासनः प्रत्युक्तावधि|र्विज्ञातजिननिर्वाणः सपरिवारः सम्मेतशैलशिखरेऽवततार, ततोऽसौ विमना निरानन्दोऽश्रुपूर्णनयनो जिनशरीरकं त्रिः प्रद- क्षिणीकृत्य अनतिदूरासने नमस्मन् पर्युपास्ते म, एवं सर्वेऽपि वैमानिकादयो देवराजाः, ततः शक्रो देवनन्दनवनात् आनायितगोशीर्षसरसदारुविहितचितित्रयः क्षीरसमुद्रादानीतक्षीरोदकेन जिनदेहं नापयामास गोशीर्षचन्दनेनानुलिलेप हंसल-18 !क्षणं शाटकं निवासयामास सर्वालङ्कारविभूषितं चकार, शेपा देवा गणधरानगारशरीरकाण्येवं चक्रुः, शक्रस्ततो देवेस्तिस्रः शिविकाः कारयामास, तत्रैकवासी जिनशरीरमारोपयामास महाच चितिस्थाने नीखा चितिकायां स्थापयामास, शेपदेवा गणधरानगारशरीराणि द्वयोः शिविकयोरारोप्य चित्योः स्थापयामासुः, ततः शक्रादेशादग्निकुमारा देवास्तिसप्वपि चितिष्वग्निकार्य, | विकृतवन्तो वायुकुमारास्तु वायुकार्य शेपदेवाश्च कालागुरुप्रवरकुन्दरुकतुरुकधूपान् घृतं मधु च कुम्भारशः प्रचिक्षिपुः, ततो मांसादिषु दग्धेषु मेधकुमारा देवाः क्षीरोदकेन चितीनिर्वापयामासुः, ततः शक्रो भगवतो दक्षिणमुपरितनं सस्थि जग्राह
दीप
अनुक्रम [१०९]
~312~