________________
आगम
(०६)
प्रत
सूत्रांक [६९,७०]
दीप
अनुक्रम [८७,८८]
“ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:)
अध्ययनं [८],
मूलं [ ६९,७०]
श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
गर्भे भवाः गर्भजा :- नीमध्ये उच्चावचकर्मकारिणः संयात्रानौवाणिजका - भाण्डपतयः, एतेषां द्वन्द्रः, 'वावरिंसुति व्यापृतवन्तः स्वस्वव्यापारेष्विति, ततस्तां नावं पूर्णोत्सङ्गां विविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यवस्तुलात् पूर्णमुखीं पुण्यमुखीं वा तथैव बन्धनेभ्यो विसर्जयन्ति-मुञ्चन्ति, पवनबलसमाहता- वातसामर्थ्यप्रेरिताः 'ऊसियसिय'त्ति उच्छ्रितसितपटा, यानपात्रे हि वायुसद्दार्थ महान् पट उच्छ्रितः क्रियते, एवं चासायुपमीयते विततपक्षेव गरुडयुवतिः गङ्गासलिलस्य तीक्ष्णाः ये श्रोतोवेगाः प्रवाहवेगास्तैः सक्षुभ्यन्ती २- प्रेर्यमाणा समुद्रं प्रतीति ऊर्मयो महाकल्लोलाः तरङ्गा-हस्वकल्लोलास्तेषां माला:-समूहाः तत्सहस्राणि 'समतिच्छमाणि'ति समतिक्रामन्ती 'ओगाढ'ति प्रविष्टा, 'तालजंघ' मित्यादि तालो-वृक्षविशेषः स च दीर्घस्कन्धो भवति ततस्तालवअड्डे यस्य तत्तथा, 'दिवंगयाहिं बाहाहिं ति आकाशप्राप्ताभ्यामतिदीर्घाभ्यां बाहुभ्यां युक्तमित्यर्थः, 'मसिमूसगमहिसकालगं ति मषी - कजलं मूषकः- उन्दुरविशेषः अथवा मषीप्रधाना मूषा-ताम्रादिधा|तुप्रतापनभाजनं मषीभूषा महिषश्च प्रतीत एव तद्वत्कालकं यत्तत्तथा 'भरियमेहवण्णं'ति जलभृतमेघवर्णमित्यर्थः, तथा लम्बोष्ठं 'निरगयग्गदंतं'ति निर्गतानि मुखादग्राणि येषां ते तथा निर्गताग्रा दन्ता यस्य तत्तथा, 'निल्लालियजमलजुयलजीहं' ति | निर्लालितं विवृतमुखान्निःसारितं यमलं - समं युगलं द्वयं जियोर्येन तत्तथा 'आऊसियवयणगडदेसं'ति आऊसियत्ति-प्रविष्टौ वदने गण्डदेशी-कपोलभागौ यस्य तत्तथा 'चीणचिपिङनासियंति चीना-हवा चिपिटा चनिम्ना नासिका यस्य तत्तथा 'विगयभुग्गभुमय'ति विकृते-विकारवत्यौ मुझे भने इत्यर्थः, पाठान्तरेण 'भुग्गभग्गे' अतीव वक्रे भ्रुवौ यस्य तथा, 'खज्जोयगदित्त चक्खुरागं ति खद्योतका ज्योतिरिङ्गणाः तद्वद्दीप्तचक्षूरागो-लोचनरक्ततं
Education Internation
अङ्गच्छाय-नृपः, तस्य वर्णनं
For Pale Only
~276~