________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------------- मूलं [६,७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६,७]
दीप
| तथा ईहा प-स्थाणुरय पुरुषो वेत्येवं सदालोचनाभिमुखा मतिचेष्टा अपोहच-स्थाणुरेवायमित्यादिरूपो निश्चयः मार्गणं च-दह वल्युत्सप्पणादयः स्थाणुधमो एव प्रायो घटन्ते इत्याद्यन्वयधर्मालोचनरूपं गवेषणं च-इह शरीरकण्ड्यनादयः पुरुषधोः प्रायो
न घटन्त इति व्यतिरेकधर्मालोचनरूपं ईहाव्यूहमार्गणागवेषणानि तैरर्थशास्त्रे-अर्थोपायव्युत्पादग्रंथे कौटिल्यराजधानीत्यादौ या Sमतिर्बोधस्तया विशारदः-पण्डितो यः स ईहान्यूहमार्गणगवेषणार्थशास्त्रमतिविशारदः, तथौत्पत्तिक्यादिकया बुढ्या उपपेतो-युक्तः,
तत्रौत्पचिकी अदृष्टाश्रुताननुभूतार्थविषयाऽऽकसिकी वैनयिकी गुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या कर्मजा कृषिवाणिज्या-13 दिकर्माभ्यासप्रभवा पारिणामिकी-प्रायो चयोविपाकजन्या, तथा श्रेणिकस्य राज्ञः बहुषु कार्येषु च-भक्तसेवकराज्यादिदानलक्षणकृत्येषु विषयभूतेषु तथा कुटुम्बेषु च-खकीयपरकीयेषु विषयभूतेषु ये मत्रादयो निश्चयान्तास्तेषु आप्रच्छनीयः, तत्र मन्त्रामन्त्रणानि पर्यालोचनानि तेषु च गुहानीव गुद्यानि-लजनीयव्यवहारगोपितानि तेषु च रहस्यानि-एकान्तयोग्यानि तेषु निश्चयेषु वा-इत्थमेवेदं विधेयमित्येवरूपनिर्णयेषु अथवा स्वतन्त्रेषु कार्यादिषु पटसु विषयेषु चकाराः समुच्चयार्थाः आप्रच्छनीय:-सकृत् । प्रतिप्रच्छनीयो द्वित्रिकृतः, किमिति ?-यतोऽसौ मेढि'त्ति खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं गायति तद्वद्य-18 मालम्ब्य सकलमश्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी, तथा प्रमाण-प्रत्यक्षादि तद्वयः तदृष्टाथानामव्यभि-18| |चारिलेन तथैव प्रवृत्तिनिवृत्तिगोचरखात् स प्रमाण, तथा 'आधारे' आधारस्पेव सर्वकार्येषु लोकानामुपकारिला तथा 'आलं-1 बन रज्ज्वादि तद्वदापद्गादिनिस्तारकलादालम्बनं तथा चक्षुः-लोचनं तल्लोकस्य मन्यमात्यादिविविधकार्येषु प्रवृत्तिनिवृत्ति| विषयप्रदर्शकसाचक्षुरिति, एतदेव प्रपश्चयति-'मेढिभूए'इत्यादि भूतशब्द उपमार्थः सर्वकार्येषु-सन्धिविग्रहादिषु सर्वभूमिका
अनुक्रम [९,१०]
अभयकुमारस्य वर्णनं
~ 26~