________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], --------------- मूलं [६,७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्म
थानम्.
प्रत सूत्रांक [६,७]
रयोर्वर्णन
॥११॥
दीप
त्ति वर्णको वाच्यः, स च वक्ष्यमाणधारिण्या इव दृश्या, 'अत्तए'त्ति आत्मजः अङ्गज इत्यर्थः, 'अहीण जाव सुरू'सि इह। श्रेणिका| यावत्करणादिदं द्रष्टव्यं 'अहीणपंचिंदियसरी रे' अहीनानि-अन्यूनानि लक्षणतः स्वरूपतो वा पश्चापीन्द्रियाणि यसिंस्तत्तथा-1 भयकुमा| विधं शरीरं यस्य स तथा, 'लकवणवंजणगुणोववेए'लक्षणानि-खस्तिकचक्रादीनि व्यञ्जनानि-मपतिलकादीनि तेपी यो| गुणः-प्रशस्तता तेनोपपेतो-युक्तो यः स तथा, उप अप इत इति शब्दप्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्वात सू. ६-७ 'माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंगे'तत्र मान-जलद्रोणप्रमाणता कथं ?-जलस्यातिभृते कुण्डे पुरुषे निवेशिते II | यज्जलं निस्सरति तयदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मान-अर्द्धभारप्रमाणता, कथं, तुलारोपितः पुरुषो यद्यर्द्धभार तुलति तदा स उन्मानप्राप्त इत्युच्यते, प्रमाण-स्वाकुलेनाष्टोत्तरशतीच्यता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-अन्यूनानि सुजातानि-सुनिष्पन्नानि सर्वाणि अङ्गानि-शिरप्रभृतीनि यस्मिन् तत्तथाविधं सुन्दरमंग-शरीरं यस्य स । तथा, 'ससिसोमाकारे कंते पियदसणे' शशिवत् सौम्याकारं कान्त-कमनीयमत एव प्रियं द्रष्टणां दर्शन-रूपं यस्य स तथा, अत एव 'मुरूवेत्ति सुरूप इति, तथा सामदण्डभेदउपप्रदानलक्षणा या राजनीतयः तासां सुष्टुं प्रयुक्तं-प्रयोगो व्यापारणं यस्य स तथा, नयानां नैगमादीनां उक्तलक्षणनीतीनां च या विधा-विधयः प्रकारास्तान् जानाति यः स तथा, पश्चात्पदद| यस्य कर्मधारयः, तत्र परस्परोपकारप्रदर्शनगुणकीर्तनादिना शत्रोरात्मवशीकरणं साम, तथाविधपरिक्लेशे धनहरणादिको दण्डः, विजिगीषतशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिको भेदः, गृहीतधनप्रतिदानादिकमुपादानं, नयविधयस्तु सप्त नैगमादयो । नयाः प्रत्येक शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च दण्डस्य त्रयः भेदस्य उपप्रदानस्य च पश्च कामन्दकादिप्रसिद्धा इति, 181
अनुक्रम [९,१०]
अभयकुमारस्य वर्णनं
~ 25~