________________
आगम
(०६)
“ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६६,६७] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६६-६७]
दीप अनुक्रम [८२-८५]
ज्ञाताधर्म
S|शधपकडच्छकपुष्पगन्धापनेकविधाभिषेकद्रव्यव्यग्रहस्ताः वज्रशूलाधनेकायुधसम्बन्धवन्धुरपाणयः आनन्दजललवप्लुतगण्ड- मलीज्ञाकथाङ्गम्. स्थलाः ललाटपट्टयटितकरसम्पुटा जयजयारवमुखरितदिगन्तराः प्रमोदमदिरामन्दमदवशविरचित विविधचेष्टाः पर्युपासांचक्रिरे, ते जन्मम
तथा केचित् चतुर्विधं वाद्य वादयामासुः केचिच्चतुर्विधं गेयं परिजगुः केचिचातुर्विध नृत्तं ननृतुः केचिचतुर्विधमभिनयमभिनिन्युः होत्सवः ॥१२८॥
केचिद् द्वात्रिंशद्विधं नाव्यविधिमुपदर्शयामासुरिति, ततो गन्धकापायिकया गावाण्यलूपयन् , ततश्चाच्युतेन्द्रो मुकुटादिभिर्जि- म.६६ | नमलञ्चकार, ततो जिनपतेः पुरतो रजतमयतन्दुरुर्दपणादीन्यष्टाष्टमङ्गलकान्यालिलेख पाटलादिबहलपरिमलकलितकुसुमनिकरं स्वमूर्तिव्यकिरत् शुभसुरभिगन्धवन्धुरं धूपं परिददाह, अष्टोचरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव-नमोऽस्तु ते सिद्ध ! बुद्ध! नीरजः कारणं सू. श्रमण ! समाहित समस्त समयोगिन् शल्यकर्तन ! निर्भय! नीरागद्वेष ! निर्मम ! निःशल्य ! निःसङ्गमानमूरणागण्यगुणरत। शीलसागर ! अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु तेऽहेते नमोऽस्तु ते भगवते इत्यभिधाय वन्दते स्म, ततो नातिदरे खितः पर्युपासांचके, एवं सर्वेऽप्यभिषिषेचुः, केवलं सर्वान्ते शक्रोऽभिषिक्तवान् , तदभिषेकावसरे च ईशानः शक्रव दात्मानं पञ्चधा विधाय जिनस्योत्सङ्गधरणादिक्रियामकरोत, ततः शक्रो जिनस्स चतुर्दिशि चतुरो धवलवृपभान् विचकार, तेषां च शृङ्गाग्रेभ्योऽष्टौ तोयधारा युगपद्विनिर्ययुः वेगेन च वियति समुत्पेतुः एकत्र च मिलन्ति स भगवतो मूर्द्धनि च निपेतुः, शेषमच्युतेन्द्रवदसावपि चकार, ततोऽसौ पुनर्विहितपञ्चप्रकारात्मा तथैव गृहीतजिनश्चतुर्निकायदेवपरिवृतः तूर्यनि-II नादापूरिताम्बरतलो जिननायकं जिनजनन्याः समीपे स्थापयामास, जिनप्रतिविम्बमवस्खापं च प्रतिसञ्जहार, क्षोमयुगलं कुण्डयुगलं
॥१२८॥ |च तीर्थकरस्योच्छीर्षकमूले स्थापयति स्म श्रीदामगण्डकं च नानामणिमयं जिनस्सोल्लोके दृष्टिनिपातनिमिचमतिरमणीयं निचिक्षेप,
भगवती मल्लिजिनस्य जन्मन: वर्णनं
~ 259~