________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ------------------ अध्ययनं २], ----------------- मूलं [३३-३५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३३-३५]]
Co90s09200000
दीप
अरित्रं च-अनुष्ठानं यस्य स तथा ततः कर्मधारयः, यूतप्रसङ्गी-धूतासक्तः एवमितराणि, नवरं भोज्यानि-खण्डखायादीनि, पुनर्दा-18 रुणग्रहणं हृदयदारक इत्यस्य विशेषणार्थेखान पुनरुक्तं, लोकानां हृदयानि दारयति-स्फोटयतीति हृदयदारकः, पाठान्तरेण जण-18 हियाकारए' जनहितस्याकर्तेत्यर्थः, 'साहसिका' अवितर्कितकारी 'सन्धिच्छेदका' क्षेत्रखानकः 'उपधिको' मायिलेन प्रच्छमचारी विश्रम्भघाती' विश्वासघातकः आदीपक:-अग्निदाता तीर्थानि-तीर्थभूतदेवद्रोण्यादीनि भिनत्ति-द्विधा करोति तद्रव्यमोषणाय तत्परिकरभेदनेनेति तीर्थभेदः, लघुभ्यां-क्रियासु दक्षाभ्यां हस्ताभ्यां संप्रयुक्तो यः स तया, ततः पदत्रयस्य कर्मधारयः, परस्प द्रव्यहरणे नित्यमनुषद्धः प्रतिबद्ध इत्यर्थः, 'तीववैर अनुबद्धविरोधः 'अतिगमनानि प्रवेशमार्गान् 'निर्ग-18॥ मनानि' निस्सरणमार्गान् 'द्वाराणि' प्रतोल्यः 'अपरद्वाराणि' द्वारिकाः 'छिण्डी' छिण्डीका:-वृत्तिच्छिद्ररूपाः 'खण्डी प्राकारच्छिद्ररूपाः नगरनिर्द्धमनानि-नगरजलनिर्गमक्षालान् 'संवर्तनानि मार्गमिलनस्थानानि 'निवर्तनानि' मार्गनिर्घटनस्था-11 | नानि 'यूतखलकानि' यूतस्थण्डिलानि 'पानागाराणि' मद्यगेहानि 'वेश्यागाराणि' वेश्याभवनानि 'तस्करस्थानानि' शून्यदेवकुलागारादीनि 'तस्करगृहाणि' तस्करनिवासान् शुझाटकादीनि प्राग् व्याख्यातानि सभाः-जनोपवेशनस्थानानि अपा:जलस्थानानि, लिङ्गव्यत्ययश्च प्राकृतखात्, 'पणितशालाः' हटान् शून्यगृहाणि-प्रतीतानि 'आभोगयन्' पश्यन् 'मार्गपन्' अन्वयधर्मपर्यालोचनतः 'गवेषयन्' व्यतिरेकधर्मपर्यालोचनतः बहुजनस्य 'छिद्रेषु' प्रविरलपरिवारत्वादिषु चौरप्रवेशाव-18 काशेषु 'विषमेषु' तीव्ररोगादिजनितातुरत्वेषु 'विधुरेपु' इष्टजनबियोगेषु 'व्यसनेषु' राज्यायुपप्लवेषु तथा 'अभ्युदये। राज्यलक्ष्म्यादिलाभेपु 'उत्सवेषु' इन्द्रोत्सवादिषु 'प्रसवेषु' पुत्रादिजन्मसु 'तिथिषु' मदनत्रयोदश्यादिषु 'क्षणेषु' बहुलो
अनुक्रम [४३-४५]]
| धन्यसार्थवाहः एवं विजयस्तेनस्य कथा
~164~