SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२३-R] दीप अनुक्रम [३२] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) अध्ययनं [१]. मूलं [२३-R] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम् ॥ ५१ ॥ प्रवचनमेव प्रावचनं सद्भ्यो हितं सत्यं सद्भूतं वा नास्मादुत्तरं - प्रधानतरं विद्यत इत्यनुत्तरं, अन्यदप्यनुत्तरं भविष्यतीत्याह- कैवलिकं- केवलं अद्वितीयं केवलिप्रणीतखाद्वा कैवलिकं प्रतिपूर्ण अपवर्गप्रापकैर्गुणैर्भृतं नयनशीलं नैयायिकं मोक्षगमकमित्यर्थः न्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थः संशुद्धं - सामस्त्येन शुद्धमेकान्ताकलङ्कमित्यर्थः शल्यानि - मायादीनि कृन्ततीति | शल्यकर्तनं सेधनं सिद्धिः- हितार्थप्राप्तिस्तन्मार्गः सिद्धिमार्गः मुक्तिमार्ग:-अहित कर्मविच्युतेरुपायः यान्ति तदिति यानं निरुतापितृपमं यानं निर्याणं-सिद्धिक्षेत्रं तन्मार्गो निर्याणमार्गः एवं निर्वाणमार्गोऽपि नवरं निर्वाणं - सकलकर्मविरहजं सुखमिति सर्वदुःखप्रक्षीणमार्गः - सकलाशर्मक्षयोपायः अहिरिव एकोऽन्तो निश्रयो यस्याः सा एकान्ता सा दृष्टि:- बुद्धिर्यस्मिन्निर्ग्रन्थे प्रवचने-चारित्रपालनं प्रति तदेकान्तदृष्टिकं, अहिपक्षे आमिषग्रहणैकतानतालक्षणा एकान्ता- एकनिश्रया दृष्टिः- दृक् यस्य स एकान्तदृष्टिकः, क्षुरप्र इव एकधारा द्वितीयधारा कल्पाया अपवादक्रियाया अभावात् पाठान्तरेण एकान्ता - एकविभागाश्रया धारा यस्य तत्तथा लोहमया इव यवाः चर्वयितव्याः प्रवचनमिति प्रक्रमः, लोहमययवचर्वणमित्र दुष्करं चरणमिति भावः, वालुकाकवल इव निरास्वादं वैषयिक सुखास्वादनापेक्षया प्रवचनं गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमनुपालयितुमिति भावः, एवं समुद्रोपमानं प्रवचनमिति, तीक्ष्णं खड्गकुन्तादिकं चंक्रमितव्यं-आक्रमणीयं यदेतत्प्रवचनं तदिति, यथा खड्गादि क्रमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमिति भावः, गुरुकं महाशिलादिकं लम्वधितव्यं - अवलम्वनीयं प्रवचनं गुरुकलम्बनमिव दुष्करं तदिति भावः, असिधारायां सञ्चरणीयमित्येवं रूपं यद्वतं नियमस्तदसिधाराव्रतं चरितव्यं आसेव्यं यदेतत्प्रवचनानुपालनं तदेतदुष्करमित्यर्थः कस्मादेतस्य दुष्करत्वमत उच्यते- 'नो य Education Internationa For Penal Use Only १ उत्क्षिप्त ज्ञाते दी क्षायां मा ~ 105~ रोधः सू. २४ ॥ ५१ ॥ wor दीक्षा सम्बन्धे मेघकुमारेण सह तस्य माता- पितरः संवादः | ...अत्र शीर्षक -स्थाने सू. २४ मुद्रितं तत् सत्यम्, परन्तु सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम २३ मुद्रितं तत् कारणात् मया २३-२ निर्दिष्टम्
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy