________________
आगम
(०५)
प्रत
सूत्रांक
[ ३३५
-३३६]
दीप
अनुक्रम
[ ४०८
-४०९]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [३३५,३३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्ति: १
॥ ३७८ ॥
द्वौ दण्डको, एवमेव च जीवस्य बहुत्वेनापरौ द्वौ, एवमादारिकशरीरापेक्षया चत्वारो दण्डका इति ॥ 'जीवे ण'मित्यादि, जीवः परकीयं वैक्रियशरीरमाश्रित्य कतिक्रियः १, उच्यते, स्यास्त्रिक्रिय इत्यादि, पञ्चक्रियश्चेह नोच्यते, प्राणातिपातस्य | वैक्रियशरीरिणः कर्त्तुमशक्यत्वाद्, अविरतिमात्रस्य चेहाविवक्षितत्वाद्, अत एवोक्तं- 'पंचमकिरिया न भन्नइति, 'एवं जहा वेउधियं तहा आहारपि तेयगपि कम्मगंपि भाणियवंति, अनेनाहारकादिशरीर त्रयमप्याश्रित्य दण्डकचतुष्टयेन नैरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं, पञ्चक्रियत्वं तु निवारितं, मारयितुमशक्यत्वात्तस्येति, अथ नारक| स्याधोलोकवर्त्तित्वादाहारकशरीरस्य च मनुष्यलोकवर्त्तित्वेन तत्क्रियाणामविषयत्वात् कथमाहारकशरीरमाश्रित्य नारकः | स्यात्त्रिक्रियः स्याच्चतुष्क्रिय इति ?, अत्रोच्यते, यावत्पूर्वशरीरमभ्युत्सृष्टं जीवनिर्वर्त्तितपरिणामं न त्यजति तावत्पूर्वभाव| प्रज्ञापनानयमतेन निर्वर्तकजीवस्यैवेति व्यपदिश्यते घृतघटन्यायेनेत्यतो नारकपूर्वभवदेहो नारकस्यैव तद्देशेन च मनुष्यलोकवर्त्तिनाऽस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा तदाहार कदेहान्नार कस्त्रिक्रियश्चतुष्क्रियो वा भवति, कायिकीभावे इतरयोरवश्यंभावात् पारितापनिकीभावे चाद्यत्रयस्यावश्यंभावादिति । एवमिहान्यदपि वि ( तद्धि)पयमघगन्तव्यं यच्च तेजसकार्म्मणशरीरापेक्षया जीवानां परितापकत्वं तददारिकाद्याश्रितत्वेन तयोरवसेयं, स्वरूपेण तयोः परितापयितुमशक्यत्वादिति ॥ अष्टमशते पष्ठोद्देशः ॥ ८-६ ॥
अत्र अष्टम- शतके षष्ठं उद्देशकः समाप्तः
For Parts Only
~761~
८ शतके उद्देशः ६ औदारिका दितः क्रिया
सू ३३६
||३७८॥
wor