________________
आगम
(०५)
प्रत
सूत्रांक
[ ३२१]
दीप
अनुक्रम [३९४]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [ ३२१] मुनि दीपरत्नसागरेण संकलित
एवं मनोयोग्यादयोऽपि, केवलिनोऽपि मनोयोगादीनां भावात् तथा मिथ्यादृशां मनोयोगादिमतामज्ञानत्रय भावाच्च, 'अजोगी जहा सिद्ध'त्ति अयोगिनः केवललक्षणैकज्ञानिन इत्यर्थः ॥ लेश्याद्वारे - 'जहा सकाइय'त्ति सलेश्याः सका| यिकवद्भजनया पञ्चज्ञानारुयज्ञानाश्च वाच्याः, केवलिनोऽपि शुकुलेश्यासम्भवेन सलेश्यत्वात्, 'कण्हलेसे' त्यादि, 'जहा सइंदिय'त्ति कृष्णलेश्याश्चतुर्ज्ञानिनख्यज्ञानिनश्च भजनयेत्यर्थः, 'सुक्कलेसा जहा सलेस' ति पञ्चज्ञानिनो भजनया त्र्यज्ञानिनश्चेत्यर्थः । 'अलेस्सा जहा सिद्ध त्ति एकज्ञानिन इत्यर्थः ॥ कषायद्वारे - 'सकसाई जहा सइंदिय'त्ति भजनया केवलवर्जचतुर्ज्ञानिनख्य ज्ञानिनश्चेत्यर्थः, 'अकसाईणमित्यादि, अकषायिणां पञ्च ज्ञानानि भजनया, कथम् 2, उच्यते, छद्मस्थो वीतरागः केवली चाकषायः, तत्र च छद्मस्थवीतरागस्याद्यं ज्ञानचतुष्कं भजनया भवति, केवलिनस्तु पश्चममिति ॥ वेदद्वारे - 'जहा सइंदिय'त्ति सवेदकाः सेन्द्रियवद्भजनया केवलवर्जचतुर्ज्ञानिनस्यज्ञानिनश्च वाच्याः, 'अवेद्गा जहा अकसाई'त्ति अवेदका अकषायिवद्भजनया पश्चज्ञाना वाघ्याः, यतोऽनिवृत्तिवादरादयोऽवेदका भवन्ति, तेषु च छद्मस्थानां चत्वारि ज्ञानानि भजनया केवलिनां तु पञ्चममिति । आहारकद्वारे — 'आहारगेत्यादि, सकषाया भजनया चतुर्ज्ञानाख्यज्ञानाश्चोक्काः आहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादपीति, 'अणाहारगा णमित्यादि, मनःपर्यवज्ञानमाहारकाणामेव, आद्यं पुनर्ज्ञानत्रयमज्ञानत्रयं च विग्रहे भवति, केवलं च केवलिसमुद्घात शैलेशी सिद्धावस्थास्वनाहारकाणामपि स्यादत उर्फ 'मणपज्जवे'त्यादि ॥ अथ ज्ञानगोचरद्वारेआभिणिबोहियनाणस्स णं भंते! केवतिए विसए पन्नन्ते, गोयमा ! से समासओ चउविहे पन्नत्ते, तंज
Education internation
आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
उपयोगादिषु ज्ञानादि अधिकार:
For Penal Use On
~716~