________________
आगम
(०५)
प्रत
सूत्रांक
[२३९]
गाथा
दीप
अनुक्रम
[ २८६
-२८७]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः )
शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ २३९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२६३॥
तेषु' संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयमं प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावात्, इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके- 'असंजएही 'त्यादि, इहासंयतत्वं | प्रतिपन्नानां बहूनां संयतत्वादिप्रतिपातेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयं, एकेन्द्रियाणां तु पूर्वोक्तयुक्त्या | सप्रदेशाश्चाप्रदेशाश्चैक एव भङ्गः इति, इह सिद्धपदं नाध्येयमसम्भवादिति । संयतासंयत बहुत्वदण्ड के 'संजया संजएहिं' इत्यादि, इह देशविरतिं प्रतिपन्नानां बहूनां संयमादसंयमाद्वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकायसम्भवः, इह जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येवाध्येयानि तदन्यत्र संयतासंयतत्वस्याभावादिति । 'नोसंजए'त्यादी सैव भावना, नवरमिह जीवसिद्धपदे एव वाच्ये अत एवोकं 'जीवसिद्धेहिं तियभंगो'त्ति । 'सकसाईहिं जीवाइओ | तियभंगो'त्ति, अयमर्थः- सकषायाणां सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानत्वे सक| पायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते ततश्च सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्चाप्रदेशाश्चेत्यपरभङ्गकद्वयमिति, नारकादिषु तु प्रतीतमेव भङ्गकत्रयम्, 'एगिदिए अभंगयंति अभङ्गकं भङ्गकानामभावोऽभङ्गकं सप्रदेशाश्चाप्रदेशाश्चेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धपदं नाध्येयमकषायित्वात्, एवं क्रोधादिदण्डकेष्वपि, 'कोहकसाईहिं जीवेगिंदियवज्जो तियभंगोत्ति, अयमर्थः- क्रोधकषायिद्वितीयदण्डके जीव| पदे पृथिव्यादिपदेषु च संप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः शेषेषु त्रयः, ननु सकषायिजीवपदवत्कथमिह भङ्गत्रयं न लभ्यते १, | उच्यते, इह मानमायाठोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते, प्रत्येकं तद्राशीनामनन्तत्वात्, न त्वेका
For Parts Only
~531~
६ शतके उद्देशः ४ जीवादीनां सप्रदशत्वादिः सू२३९
॥ २६३ ॥
waryra