________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१९२-१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१९२-१९७]
दीप अनुक्रम
|साधारणलक्षणान्मात्रादि(देः)प्रमातुः पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गात्परोक्षार्थज्ञानं यथा मयूरोऽत्र केकायितादिति, दृष्टसाधर्म्यवत् यथै कस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथे-18 त्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात् , त्रिधा वा सूत्रार्थोभयभेदात्, अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागमभेदात् , तन्त्रात्मागमादयोऽथेतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वन्नाह-'जावेत्यादि, 'तेण परं ति गणधरशिष्याणां सूत्रतोऽनन्तरागमोऽर्थतस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः ॥ केवलीतरप्रस्ताव एवेदमपरमाह-केवली णमित्यादि, चरमकर्म | यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति । 'पणीय'न्ति प्रणीतं | शुभतया प्रकृष्टं 'धारेजत्ति धारयेयापारयेदित्यर्थः। एवं अणंतरेत्यादि, अस्थायमर्थ:-यथा वैमानिका द्विविधा उक्ताः
मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधा वाच्याः, अनन्तरोपपमानकानां च ज्ञाननिषेधः, तथा परम्परोपपन्न का अपि पर्याप्तकापर्याप्तकभेदेन द्विधा वाच्याः, अपर्याप्तकानां च ज्ञाननि-11
पेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा वाच्याः, अनुपयुक्तानां च ज्ञाननिषेधश्चेति । वाचनान्तरे विदं सूत्र साक्षादेवोपलभ्यते, 'आलावं वत्ति सकृजल्प 'संलावं वत्ति मुहुर्मुहुर्जल्प मानसिकमेवेति 'लद्धाओं'त्ति तदवधेविषय-13 भावं गताः 'पत्ताओ'त्ति तदवधिना सामान्यतःप्राप्ताः परिच्छिन्ना इत्यर्थः 'अभिसमन्नागयाओं'त्ति विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषय, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहकं भवत्येव, यतो योऽपि |
[२३२
-२३७]
Auditurary.com
~450~