________________
आगम
(०५)
प्रत
सूत्रांक
[C]
दीप
अनुक्रम [१०]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [८], मुनि दीपरत्नसागरेण संकलित
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ १७ ॥
araton
आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
|
कानीति शेषः, सर्वेषामेषामुत्पादमाश्रित्यैकार्थ कारित्वादेकान्तर्मुहत्तेमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः, स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद एव, यतः कर्मचिन्तायां कर्मणः प्रहाणेः फलद्वयं केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्वः १ यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः, तस्मात्स एव केवलज्ञानोत्पत्तिपर्यायोऽभ्युपगतः, एषां च पदानामेकार्थाना मपि सतामयमर्थः सामर्थ्यप्रापितक्रमः, वक्त-पूर्वं तचलति - उदेतीत्यर्थः, उदितं च वेद्यते, अनुभूयत इत्यर्थः तच्च द्विधा-स्थितिक्षयादुदयप्राप्तमुदीरणया चोदयमुपनीतं, ततश्चानुभवानन्तरं तत् प्रहीयते, दत्तफलत्वाजीवादपयातीत्यर्थः, | एतच टीकाकारमतेन व्याख्यातम्, अन्ये तु व्याख्यान्ति-स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादकार्थिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति, चत्वारि चलनादीनि पदान्ये कार्थिकानीत्युक्ते शेषाण्यनेकार्थिकानीति सामर्थ्यादवगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह-'छिजमाणे' इत्यादि, व्यक्तं, नवरं 'णाणह'ति नानार्थानि ना| नार्थत्वं त्वेवं छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं यतः सयोगिकेवली अन्तकाले योगनिरोधं कर्तुकामो वेदनी| यनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्त्तनयाऽऽन्तमैौहूर्त्तिकं स्थितिपरिमाणं करोति । तथा 'भिद्यमानं भिन्न' मित्येतत्पदमनुभागबन्धाश्रयं तत्र च यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि | करोति, केवलं रसघातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थं | पदं भवति । तथा 'दह्यमानं दग्ध मित्येतत्पदं प्रदेशबन्धाश्रयं, प्रदेशबन्धस्त्वनन्तानन्तप्रदेशानां स्कन्धानां कर्मत्वापादनं,
For Parata Use Only
~40~
१ शतके उद्देश के चढदायेकार्थादिविचारः सूत्रंट
॥ १७ ॥
unerary org