________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१०]
दीप अनुक्रम [१३०]
व्याख्या-1 शेषाः गन्धर्वा महोरगाश्च-व्यन्तरविशेषाः 'अणतिकमणिजत्ति अनतिक्रमणीया:-अचालनीयाः, 'लहत्ति अर्थश्रय- २ शतके प्रज्ञप्तिः णात् 'गहिय?'त्ति अर्थावधारणात् 'पुच्छिय'त्ति सांशयिकार्थप्रश्नकरणात् 'अभिगहियत्ति प्रनितार्थस्याभिगमनात् अभयदेवी
विणिच्छियहत्ति ऐदम्पर्यार्थस्योपलम्भाद् अत एव 'अद्विमिजपेम्माणुरागरत्ता' अस्थीनि च-कीकसानि मिञ्जा तुङ्गिकाया वृत्तिः१
|च-तन्मध्यवर्ती धातुरस्थिमिजास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, श्रावकाः ॥१३५॥ अथवाऽस्थिमिजासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखेन? इत्याह-'अयमाउसो'इत्यादि, अयमिति
प्राकृतत्वादिदम् 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं 'सेसे'त्ति शेष-निर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्यपुत्रकलत्रमित्र कुप्रवचनादिकमिति, 'ऊसियफलिह'त्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिक चित्तं येषां ते उच्छितस्फटिकाः मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा इत्यर्थ इति वृद्धव्याख्या, अन्ये वाहुः-उच्छ्रितः-अर्गलास्थानादपनीयो कृतो नमू |तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिधः-अर्गला येषां ते उच्छ्रितपरिणाः, अथवोच्छ्रितो-गृहद्वारादपगतः परियो। ला येषां ते उच्छ्रितपरिधाः, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवंगु-12 यदुवारे'ति अप्रावृतद्वाराः कपाटादिभिरस्थगित गृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पाण्डिकाद्विभ्यति, शोभनमापरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या, अन्ये त्वाहुः-भिक्षुकमवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, 'चियत्तंतेउरघरप्पवेसा' 'चियत्तो'त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः, अन्ये त्वाहुः-'चियत्तोत्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः-शिष्टजनप्रवेशनं
॥१३५।
तुन्गिका-नगर्या: श्रावका:
~275~