________________
आगम
(०५)
प्रत
सूत्रांक
[ ७५ ]
दीप
अनुक्रम
[९७]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [ ७५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ९८ ॥
Education!
'पति' ति भेदकथनतः, द्वयोर्जीवयोरेकस्य वा समयभेदेनायुर्द्वयकरणे नास्ति विरोध इत्युक्तम्— 'एंगे जीवे इत्यादि, 'दो आउयाई पकरेइ'त्ति जीवो हि स्वपर्यायसमूहात्मकः, स च यदैकमायुःपर्यायं करोति तदाऽन्यमपि करोति, स्वपर्यायत्वात् ज्ञानसम्यक्त्व पर्यायवत्, स्वपर्यायकर्तृत्वं च जीवस्याभ्युपगन्तव्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पादप्रसङ्ग इति भावः, उक्तार्थस्यैव भावनार्थमाह-'जमित्यादि, विभक्तिविपरिणामाद् यस्मिन् समये इहभवो वर्तमानभवो | यत्रायुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपिं, अनेन चेहभवायुःकरणसमये परभवायुःकरणं नियमितम्, अथ परभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह 'जं समयं परभवियाजय' मित्यादि, एवमेकसमय कार्यतां द्वयोरप्यभिधायैक क्रियाकार्यतामाह - 'इहभवियाउयस्से' त्यादि, 'पकरणयाए'त्ति करणेन 'एवं खलु' इत्यादि निगमनं । 'जणं ते अण्णउत्थिया एवमाक्स्वंती' त्याद्यनुवादवाक्यस्यान्ते तत् प्रतीतं न केवलमित्ययं वाक्यशेषो दृश्यः, 'जे ते एवमाहंसु मिच्छं ते एवमाहंसु'ति तत्र 'आहंसुति उक्तवन्तः, यच्चायं वर्त्तमाननिर्देशेऽधिकृतेऽतीतनिर्देशः स सर्वो वर्त्तमानः ( नका ) कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः, मिथ्यात्वं चास्यैवम् - एकेनाध्यवसायेन विरुद्वयोरायुषोर्बन्धायोगात् यच्चोच्यते--पर्यायान्तरकरणे पर्यायान्तरं करोति, स्वपर्यायस्वादिति, तदनैकान्तिकं, सिद्धस्वकरणे संसारित्वाकरणादिति । टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति वेदयते इत्यर्थः परभवायुस्तदा प्रकरोति बनातीत्यर्थः, इहभवायुरुपभोगेन परभवायुर्वभातीत्यर्थः, मिथ्या चैतत्परमतं यस्माज्जातमात्रो जीव इहभवा
For Park at Use Only
~ 202~
१ शतके
उद्देशः ९ इहपरभवायुःकरणे वि प्रतिपात्ति
सू ७५
॥ ९८ ॥
rary org