________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [८२४]
जहा सलेस्सा, अकसायी जहा अलेस्सा, सयोगी जाव काययोगी जहा सलेस्सा, अजोगी जहा अलेस्सा, सागारोवउत्ता य अणागारोवउत्ता य जहा सलेस्सा (सूर्य ८२४)॥
'कइ णमित्यादि, 'समोसरण'त्ति समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतया येषु मतेषु तानि समवसरणानि, समवस्तयो वाऽन्योन्यभिन्नेषु क्रियावादादिमतेषु कथञ्चित्तुल्यत्वेन कचित्केषाबिद्वादिनामवताराः समवसरणानि, 'किरियावाइ'त्ति क्रिया कारं विना न संभवति सा चात्मसमवाायिनीति वदन्ति तच्छीलाच येते क्रियावादिनः, अन्ये त्वाहुः -क्रियावादिनो ये ब्रुवते क्रिया प्रधानं किं ज्ञानेन, अन्ये तु व्याख्यान्ति-क्रियां जीवादिपदार्थोऽस्तीत्या-18 दिकां वदितुं शीलं येषां ते क्रियावादिनस्ते चास्मादिपदार्थास्तित्वप्रतिपत्तिलक्षणा अशीत्यधिकशतसङ्ख्याः स्थानान्तरादवसेयाः, ततश्च क्रियावादिसम्बन्धात्समवसरणमपि क्रियावादि, समवसरणसमवसरणवतां चाभेदोपचारात् क्रियावादिन एव समवसरणमिति, एवमन्यत्रापि, 'अकिरियावाइ'त्ति अक्रियां-क्रियाया अभावं न हि कस्यचिदप्यनवस्थितस्य
पदार्थस्य क्रिया समस्ति तनावे चानवस्थितेरभावादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः ॥ठा सर्वसंस्कारा, अस्थितानां कुतः क्रिया? । भूतियेषां क्रिया सैव, कारक सैव चोच्यते ॥१॥” इत्यादि, अन्ये त्वाहुर-11
अक्रियावादिनो ये मुवते किं क्रियया चित्तशुद्धिरेव कार्या ते च बौद्धा इति, अन्ये तु व्याख्यान्ति-अकियां-जीवादि| पदार्थों नास्तीत्यादिको वदितुं शीलं येषां तेऽक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिवि|कल्पाः स्थानान्तरादवसेयाः, 'अन्नाणियवाइ'त्ति कुत्सितं ज्ञानमज्ञानं तधेषामस्ति तेऽज्ञानिकास्ते च ते वादिनश्चेत्य
दीप
अनुक्रम [९९८]
समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता
~ 1891~