________________
आगम
(०५)
प्रत
सूत्रांक
[७९९]
गाथा:
दीप
अनुक्रम
[९५४
-९५९]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [७९९ ] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
प्रज्ञष्ठिः अभयदेवीया वृत्तिः २
॥ ९१९ ॥
वल्गनादिः, तथा प्रमादे सति, प्रमादश्च मद्यविकधादिः, तथाऽनाभोगे सति, अनाभोगश्चाज्ञानम्, 'आतुरे' ति आतुरत्वे सति आतुरश्च बुभुक्षापिपासादिबाधितः, 'आवईय'त्ति आपदि सत्यां, आपञ्च द्रव्यादिभेदेन चतुर्विधा, तत्र द्रव्यापत् | प्रासुकादिद्रव्यालाभः, क्षेत्रापत् कान्तारक्षेत्रपतितत्वं, कालापत् दुर्भिक्षकालप्राप्तिः, भावापद् ग्लानत्वमिति, 'संकिण्णे'ति' सङ्कीर्णे स्वपक्षपरपक्षव्याकुले क्षेत्रे सति, 'संकिय'त्ति कचित्पाठस्तत्र च शङ्किते आधाकम्र्म्मादित्वेन शङ्कितभक्तादिविषये, * निशीथपाठे तु 'तिंतिण' इत्यभिधीयते, तत्र च तिन्तिणत्वे सति तच्चाहाराद्यलाभे सखेदं वचनं, 'सहसकारे'ति सहसाकारे सति आकस्मिक क्रियायां तथा च "पुद्धिं अपासिकणं पाए छूमि जं पुणो पासे । न तरइ नियत्तेचं पायं सहसाकरणमेयं ॥ १ ॥ इति, 'भयप्पओसा य'त्ति भयात् सिंहादिभयेन प्रतिसेवा भवति, तथा प्रद्वेषाञ्च प्रद्वेषश्चक्रोधादिः, 'वीमंस'त्ति विमर्शात्- शिक्षकादिपरीक्षणादिति, एवं कारणभेदेन दश प्रतिसेवाभेदा भवन्ति ॥ 'आकंपड़सा' गाहा, आकम्प्य - आवर्जितः सन्नाचार्यः स्तोकं प्रायश्चित्तं मे दास्यतीतिबुद्ध्याऽऽलोचनाऽऽचार्यं वैयावृत्त्यकरणादिनाssवर्ज्य यदालोचनमसावालोचनादोषः 'अणुमाणइत्त'त्ति अनुमान्य-अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्थस्याकालय्य यदालोचनमसौ तद्दोषः, एवं 'जं दिहं'त्ति यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति 'वायरं व'ति बादरमेवातिचारजातमालोचयति न सूक्ष्मं तत्रावज्ञापरस्यात्, 'सुमं व'त्ति सूक्ष्ममेवातिचारजातमालोचयति यः किल सूक्ष्मं तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, 'छन्नं'ति छन्नं१ पूर्वमदृष्ट्वा पादे त्यक्ते (प्रसारिते ) यत्पुनः पश्यति न च पादं निवर्त्तयितुं शक्नोति एतत्सहसा करणम् ॥ १ ॥
Education Internationa
For Parts Only
~ 1842 ~
२५ शतके उद्देशः ७ प्रतिसेवादि सू ७९९
॥ ९१९ ॥