________________
आगम
(०५)
प्रत
सूत्रांक
[४४]
दीप
अनुक्रम
[६१-६२]
““भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः )
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [ ४४] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः १
॥ ६९ ॥
व्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु सागरोपमम्, एतस्यां चैकैक समयवृद्ध्याऽसङ्ख्येयानि स्थितिस्थानानि भवन्ति, असङ्ख्येयत्वात्सागरोपमसमयानामिति, एवं नरकावासापेक्षयाऽप्यसङ्ख्यान्येव तानि केवलं तेषु जघन्योत्कृष्टविभागो प्रन्थान्तरादवसेयो यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु नवतिरिति, एतदेव दर्शयन्नाह - 'जहण्णिया ठितीत्यादि, जघन्या स्थितिर्दशवर्षसहस्रादिका इत्येकं स्थितिस्थानं, तच्च प्रतिनरकं भिन्नरूपं, सैव समयाधिकेति द्वितीयम्, इदमपि विचित्रम्, एवं यावदसत्येयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह-'तप्पाउग्गुकोसिय'त्ति, उत्कृष्टा असावनेकविधेति विशेष्यते तस्य विवक्षितनरकावासस्य प्रायोग्या - उचिता उत्कर्षिका तरप्रायोग्योत्कर्षिका इत्यपरं स्थितिस्थानम्, इदमपि चित्रं, विचित्रत्वादुत्कर्षस्थितेरिति ॥ एवं स्थितिस्थानानि प्ररूप्य तेष्वेव क्रोधाद्युपयुक्तत्वान्नारकाणां विभागेन दर्शयन्निदमाह-इमीसे णं इत्यादि, 'जहन्नियाए ठिईए वहमाणस्स'त्ति या यत्र नरकावासे जघन्या तस्यां वर्त्तमाना', 'किं कोहोबत्तेत्यादि प्रश्ने 'सच्चेवी' त्याद्युत्तरं तत्र च प्रतिनरकं जघ| न्यस्थितिकानां सदैव भावात् तेषु च क्रोधोपयुक्तानां बहुत्वात्सप्तविंशतिर्भङ्गकाः, एकादिसङ्ख्यात समयाधिक जघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु च क्रोधाद्युपयुक्तानामेकत्वानेकत्वसम्भवादशीतिर्भङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्, आह च "संभवइ जहिं विरहो असीई भंगा तहिं करेजाहि । जहियं न होइ विरहो अभंगयं सत्तवीसा वा ॥ १ ॥" अयं च तत्सत्तापेक्षो विरहो द्रष्टव्यो न सूत्पादापेक्षया, यतो रत्नप्रमायां चतुर्विंशति१ यत्र (एकादिसङ्ख्यात समयाधिकादी ) विरहः संभवति तत्राशीतिं भङ्गानां कुर्यात् । यत्र न विरहो भवति तत्रामङ्गकं सप्तविंशतिर्वा ॥ १ ॥
For Palsta Use Only
~ 144~
१ शतके उद्देशः ५ स्थितौ क्रोधोपयुकादिः
सू ४४
॥ ६९ ॥