________________
आगम
(०५)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [४८]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः )
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [३९]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ६४ ॥
बालपंडियवीरित्ताए 'सि, तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति । उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरम् 'उबठ्ठाएजा पंडियवीरियन्ताए'ति उदीर्णालापकापेक्षयोपशान्तालापकयोरयं विशेष:-प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सतोपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितबीर्यस्यैव भावादितरयोश्चाभावात् । वृद्धैस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातं - मोहनीयेनोपशान्तेन सता न मिथ्यादृष्टिर्जायते, साधुः श्रावको वा भवतीति । द्वितीयालाप के तु 'अवकमेज बालपंडियबीरियत्ताए 'सि, मोहनीयेन हि उपशान्तेन संयतत्वाद्वाउपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात्, न तु मिथ्यादृष्टिः, मोहोदय एव तस्य भावात्, मोहोपशमस्य चेहाधिकृतत्वादिति । अथापक्रामतीति यदुक्तं तत्र सामान्येन प्रश्नयन्नाह - 'से भंते! कि' मित्यादि, 'से'ति असी जीवः, अथार्थो वा शब्दः, 'आयाए 'त्ति आत्मना 'अणायाए'त्ति अनात्मना, परत इत्यर्थः 'अपक्रामति' अपसर्पति, पूर्व पण्डितत्वरुचिर्भूत्वा पश्चान्मिश्ररुचिर्मिथ्यारुचिर्वा भवतीति, कोऽसौ ? इत्याह-मोहनीय कर्म मिथ्यात्वमो हनीयं चारित्रमोहनीयं वा वेदयन्, उदीर्णमोह इत्यर्थः । 'से' कहमेयं भंते 'ति अथ 'कथं' केन प्रकारेण 'एतद्' अपक्रमणम् ' एवं 'ति मोहनीयं वेदयमानस्येति, इहोत्तरं 'गोयमे' त्यादि, 'पूर्वम्' अपक्रमणात् प्राग् 'असो' अपक्रमणकारी जीवः 'एतद्' जीवादि अहिंसादि वा वस्तु 'एवं' यथा जिनैरुक्तं 'रोचते' श्रद्धन्ते करोति वा, 'इदानीं ' मोहनीयो| दयकाले 'सः' जीवः 'एतत्' जीवादि अहिंसादि वा 'एवं' यथा जिनैरुकं 'नो रोचते' न श्रद्धत्ते न करोति वा, 'एवं खलु' उक्तप्रकारेण 'एतवू' अपक्रमणम्, 'एवं' मोहनीय वेदने इत्यर्थः ॥ मोहनीय कर्माधिकारात् सामान्यकर्म चिन्तयन्नाह
For Parts Only
~ 134~
१ शतके
उद्देशः ४ मोहनीयोदयादुप१ स्थानादि सू ३९
॥ ६४ ॥
nray or