________________
आगम
(०५)
प्रत
सूत्रांक
[५४१]
दीप
अनुक्रम [६३९]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५४१] मुनि दीपरत्नसागरेण संकलित
गोशालक चरित्रं
Eucation International
आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
नुमतिमेदेन त्रिकरणशुद्धेन - मनोवाक्कायशुद्धेन 'वसुहारा बुद्ध'त्ति वसुधारा द्रव्यरूपा घारा दृष्टा 'अहो दानं ति अहोशब्दो विस्मये 'कयत्थे 'ति कृतार्थः कृतस्वप्रयोजनः 'कय लक्खणे'त्ति कृतफलवलक्षण इत्यर्थः 'कथा में लोग'त्ति कृती शुभफलौ अवयवे समुदायोपचारात् टोकी-इहलोकपरलोकी 'जम्मजीवियफले'त्ति जन्मनो जीवितव्यस्य च यत्फलं तत्तथा 'तहारूवे साहु साहुवे 'ति 'तथारूपे' तथाविधे अविज्ञातव्रतविशेष इत्यर्थः 'साथी' श्रमणे 'साधुरूपे' साध्वाकारे, 'धम्मंतेवासि' त्ति शिल्पादिग्रहणार्थमपि शिष्यो भवतीत्वत - धम्र्मान्तेवासी, 'खज्जगविहीए'त्ति खण्डखाद्यादिलक्षणभोजनप्रकारेण 'सवकामगुणिएणं' ति सर्वे कामगुणा-अभिलापविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन 'परमन्त्रेणं'ति परमानेन रेग्या 'आयामेत्व'त्ति आचामितवान् तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्धार्थमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः । 'सग्भितरवाहिरिए 'ति सहाभ्यन्तरेण विभागेन बाह्येन च यत्तत्तथा तत्र 'मग्गणगवेसणं' ति अन्वयतो मार्गणं व्यतिरेकतो | गवेषणं ततश्च समाहारद्वन्द्वः 'सुहं वत्ति श्रूयत इति श्रुतिः- शब्दस्तां चक्षुषा किल दृश्यमानोऽर्थः शब्देन निश्चीयत इति श्रुतिग्रहणं 'खुई व'सि क्षवणं श्रुतिः-छीत्कृतं ताम्, एषाऽप्यदृश्यमनुष्यादिगमिका भवतीति गृहीता, 'पवन्तिं वत्ति प्रवृत्ति-यात, साडियाओ' त्ति परिधानवस्त्राणि 'पाडियाओ'त्ति उत्तरीववस्त्राणि, क्वचित् 'भंडियाओ'त्ति दृश्यते तत्र भण्डिका - रन्धनादिभाजनानि, 'माहणे आयामेति त्ति शाटिकादीनर्थान् ब्राह्मणान् लम्भयति शाटिकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, 'सउत्तरोई'ति सह उत्तरोष्ठेन सोत्तरीष्ठं-सरमकं यथा भवतीत्येवं 'मुंडं'ति मुण्डनं कारयति
For Parts Only
~ 1331~