________________
आगम
(०४)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम [ ३२-३७]
समवाय [१५], मुनि दीपरत्नसागरेण संकलित
श्रीसमवायांगे श्रीअभय० वृत्ति:
॥ ३० ॥
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
मूलं [१५]
आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रतिपदं - प्रथमतिथिमादौ कृत्वेति वाक्यशेषः पञ्चदशभागं पञ्चदशभागेनेति वीप्सायां द्विर्वचनादि यथा पदं पदेन गच्छतीत्यादिषु प्रतिदिनं पञ्चदशभागं पञ्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य लेश्यामिति लेश्या-दीसितत्कारणत्वात् मण्डलं लेश्या तामावृत्य - आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह - 'तद्यथे' त्यादि 'पढमाइ' ति प्रथमायां तिथ्यां प्रथमं भागं पञ्चदशांशलक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः अनेन क्रमेण यावत् 'पन्नरसेसु'ति पञ्चदशसु दिनेषु पञ्चदशं पञ्चदशभागमावृत्य तिष्ठति, 'तं चेव'ति तमेव पञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन २ - पञ्चदशभागतः खयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति, इह चायं भावार्थ:- षोडशभागीकृतस्य चन्द्रस्य षोडशभागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः प्रतिदिनमेकैकं भागं कृष्णपक्षे जागोति शुक्रपक्षे तु विमुञ्चतीति, उक्तं च ज्योतिष्करण्डके - 'सोलसभागे काऊण उडुबई हायएत्थ पन्नरसं । तत्तियमेसे भागे पुणोवि परिवहई जोण्हा ॥१॥ इति, ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजन प्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशैर्दिनैश्चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिस्ररश्मिजालेन तस्यावरणान्न दोष इति, तथा षड् नक्षत्राणि
१ घोडा भागान् करोडपतिहयतेऽत्र पचदश तावन्मात्रान् भागान् पुनरपि परिवर्धते ज्योत्सा १ ॥
Jan Eucation International
For Pal Pal Use Only
~ 64~
१५ सम
वायाध्य.
॥ ३० ॥
wor