________________
आगम
(०४)
प्रत
सूत्रांक
[१५६
१५९]
गाथा:
१-९३
दीप
अनुक्रम
[२५४
-३८३]
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
समवाय [प्रकिर्णका:], मूलं [ १५६ से १५९ ] + ९३ गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४ ], अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीसमवायांगे श्रीअभय०
वृत्तिः
॥१५७॥
ततः पदद्वयस्य कर्म्मधारयः, प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते, तथा ताउस्तलो वा वृक्षविशेषो ध्वजो येषां ते तालध्वजाः बलदेवा उद्विद्ध: - उच्छ्रितो गरुडलक्षितः केतुः-ध्वजो येषां ते उद्विद्धगरुडकेतवो वासुदेवाः तालध्वजाश्च उद्विद्धगरुडकेतवश्च तालध्वजोद्विद्धगरुडकेतवः महाधनुर्विकर्षकाः महाप्राणत्वात् महासत्त्वलक्षणजलस्य सागरा इव सागरा आश्रयत्वान्महासत्त्वसागराः दुर्द्धरा रणाङ्गणे तेषां प्रहरतां केनापि धन्विना धारयितुमशक्यत्वात्, धनुर्धराः - कोदण्डप्रहरणाः, धीरेष्वेवैतेषु च ते पुरुषाः- पुरुषकारवन्तो न कातरेध्विति धीरपुरुषाः, युद्धजनिता या कीर्त्ति स्तत्प्रधानाः पुरुषा युद्धकीर्त्तिपुरुषाः, विपुलकुलसमुद्भवा इति प्रतीतं महारतं वज्रं तस्य महाप्राणतया विघटका-अङ्गुष्ठतर्जनीभ्यां चूर्णका महारलविघटकाः, वज्रं हि अधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोटयते न च भिद्यते तावेव भिनत्तीति दुर्भेदं तदिति, अथवा महती या रचना सागरशकटव्यूहादिना प्रकारेण सिसङ्ग्रामयिषोर्महासैन्यस्य रणरङ्गरसिकतया महाबलतया च विघटयन्ति - वियोजयन्ति ये ते महारचनाविघटकाः, पाठान्तरेण तु महारणविघटकाः, अर्द्धभरतखामिनः सौम्या नीरुजा राजकुलवंशतिलकाः अजिताः अजितरथाः, 'हलमुशलकणकपाणयः' तत्र हलमुशले प्रतीते ते प्रहरणतया पाणी-हस्ते येषां ते तथा बलदेवाः येषां तु कणका-वाणाः पाणी ते शार्ङ्गधन्वानो वासुदेवाः, शंखश्च पाञ्चजन्याभिधानः चक्रं तु सुदर्शननामकं गदा च कौमोदकीसंज्ञा लकुटविशेषः शक्तिश्व त्रिशूलविशेषो नन्दकश्च नन्दकाभिधानः खगस्तान् धारयन्तीति शंखचक्रगदाशक्तिनन्दकधराः वासुदेवाः, प्रवरो वरप्रभाव
For PanalPrata Use Only
~318~
१५९ जि
नचक्रिवासुदेवादि
॥१५७॥
wrary.org