________________
आगम
(०४)
प्रत
सूत्रांक
[१५६
१५९]
गाथा:
१-९३
दीप
अनुक्रम
[२५४
-३८३]
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
मूलं [ १५६ से १५९ ] + ९३ गाथा:
समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
२७ सम०
हकत्वात् अमत्सराः परगुणलवस्यापि ग्राहकत्वात् अचपला मनोवाक्कायस्थैर्यात् अचण्डा निष्कारणप्रबलकोपरहितत्वात् मिते- परिमिते मञ्जले - कोमले प्रलापश्च-आलापो हसितं च येषां ते मितमञ्जलप्रलापहसिताः गम्भीरं-जद|र्शितरोपतोषशोकादिविकारं मेघनादवा मधुरं श्रवणसुखकरं प्रतिपूर्णम्-अर्धप्रतीतिजनकं सत्यम्-अवितथं वचनं वाक्यं येषा ते तथा, ततः पदद्वयस्य कर्म्मधारयः, अभ्युपगतवत्सला स्तत्समर्थन शीलत्वात् शरण्यास्त्राणकरणे साधुत्वात् - क्षणानि - मानादीनि वज्रस्वस्तिक चक्रादीनि वा व्यञ्जनानि - तिलकै मषादीनि तेषां गुणा-महर्द्धिप्रात्यादयस्तैरुपेताः शकन्ध्वादिदर्शनादुपपेता-युक्ता लक्षणन्यअनगुणोपपेताः, मानमुदकद्रोणपरिमाणशरीरता, कथं ?, उदकपूर्णायां द्रोण्या निविष्टे पुरुषे यज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्वात् तदा स पुरुषो मानप्राप्त इत्यभिधीयते, उन्मानं अर्द्धभारपरिमाणता, कथं ?, तुलारोपितस्य पुरुषस्य यद्यर्द्धभारतील्यं भवति तदाऽसावुन्मानप्राप्त उच्यते, प्रमाणमष्टोतरशतमगुलानामुच्छ्रयः, मानोन्मानप्रमाणैः प्रतिपूर्ण - अन्यूनं सुजातमागर्भाधानात् पाउनविधिना सर्वानसुन्दरं -निखिलावयवप्रधानं अङ्गं शरीरं येषां ते तथा, शशिवत् सौम्या कारमरौद्रमवीभत्सं वा कान्तं-दीसं प्रियं जनानां प्रमो दोत्पादकं दर्शनं रूपं येषां ते तथा, 'अमरिसण'त्ति अमसृणाः- प्रयोजनेष्वनलसाः अमर्षणा वा अपराधेष्वपि कृतक्षमाः प्रकाण्ड-उत्कटो दण्डप्रकार आज्ञाविशेषो नीतिभेदविशेषो वा येषा ते तथा, अथवा प्रचण्डो- दुःसाध्यसाधकत्वाद्दण्डप्रचारः - सैन्यविचरणं येषां ते तथा, गम्भीरा-अलक्ष्यमाणान्तर्वृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः,
For Parts Only
~ 317 ~
rayog