________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१४८]
[सा गोष्ठामाहिलवत उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलि
गधार्यनेकश्रमणवत् सूत्रार्थोभयविराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया तदकरणेनेत्यर्थः, 'इचेय'मित्यादि गतार्थमेव, नवरं 'परित्ता जीवा' इति संख्येया जीवाः, वर्तमाने विशिष्टविराधकमनुष्यजीवानां की संख्येयत्वात् 'अणुपरियटुंति'त्ति अनुपरावर्तन्ते भ्रमन्तीत्यर्थः, 'इच्चेय'मियादि इदमपि भावितार्थमेव, नवरम् 'अणुपरियटिस्सतित्ति अनुपरावर्त्तिष्यन्ते पर्यटिष्यन्तीत्यर्थः, 'इच्चेय मित्यादि कण्ठ्यं, नवरं 'विइवइंसुत्ति व्यतित्रजितवन्तः | चतुर्गतिकसंसारोलचनेन मुक्तिमवाप्ता इत्यर्थः, एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः-'विइवयंति'त्ति व्यतिग्रज|न्ति-व्यतिक्रामन्तीत्यर्थः, अनागतेऽप्येवं, नवरं 'वीइवइस्संति'त्ति व्यतित्रजिष्यन्ति-व्यतिक्रमिष्यन्तीत्यर्थः, यदिदमनिटेतरभेदभिन्नं फलं प्रतिपादितमेतत्सदावस्थायित्वे सति द्वादशाङ्गस्योपजायत इत्याह-'दुवालसंगे' इत्यादि, द्वादशा णमित्यलङ्कारे गणिपिटकं न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् न कदाचिन्न भविष्यति अपर्यवसितत्वात्, किं तर्हि ?, 'भुवि 'सादि अभूच्च भवति च भविष्यति च, ततश्चेदं त्रिकालभावित्वादचलं अचलत्वाच भुवं मेर्वादिवत् ध्रुवत्वादेव नियतं पञ्चास्त्रिकायेषु लोकवचनवत् नियतत्वादेव शाश्वतं समयावलिकादिषु कालवचनवत् शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रबाहेऽपि पद्माइदवत् अक्षयत्वादेवाव्ययं मानुषोत्तरादहिः समुद्रवत् अव्ययत्वादेव खप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् अवस्थितत्वादेव नित्यमाकानवदिति, साम्प्रतं दृष्टा
RECASNA
%A4%AC-54-5
दीप
अनुक्रम [२३३]
द्वादशांगीनाम् शाश्वतता
~269~