________________
आगम
(०४)
प्रत
सूत्रांक
[१४६ ]
दीप
अनुक्रम
[२२७]
“समवाय" समवाय [प्रकिर्णका:],
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४]
श्री समवायोग
श्रीअभय०
वृचिः
॥१२७॥
Jan Eucation
-
अंगसूत्र-४ (मूलं+वृत्तिः)
विपाकश्रुत अंगसूत्रस्य शाश्त्रीयपरिचयः,
कदानव्यापारापेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारापेक्षया चोगमादिदोपवर्जितानि ततः किं ?यथा च-येन च प्रकारेण पारम्पर्येण - मोक्षसाधकत्वलक्षणेन निर्वर्त्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दो भाषामात्रार्थः, बोधिलाभं यथा च परितीकुर्वन्ति-हखतां नयन्ति संसारसागरमिति योगः, किंभूतं ?-नरनिरयतिर्यक्सुरगतिषु यज्जीवानां गमनं परिभ्रमणं स एव विपुलो- विस्तीर्णः परिवर्त्ता-मत्स्यादीनां परिवर्तनमनेकधा सञ्चरणं यत्र स तथा, तथा अरतिभयविषादशोकमिध्यात्वान्येव शैलाः- पर्वतास्तैः सङ्कटः- सङ्कीर्णो यः स तथा ततः कर्म्मधारयोऽतस्तं, इह च विपादो- दैन्यमात्रं शोकस्त्वाक्रन्दनादिचिह्न इति, तथा अज्ञानमेव तमोऽन्धकारं - महान्धकारं यत्र स तथा अतस्तं, 'चिक्खिलसुदुत्तारं ति चिक्खिलं-कर्दमः संसारपक्षे तु चिक्खिलं विषयधन खजनादिप्रतिबन्धस्तेन सुदुस्तरो- दुःखोत्तार्यो यः स तथा तं, तथा जरामरणयोनय एव संक्षुभितं महामत्स्य मकराद्यनेकजलजन्तुजातसम्मर्देन प्रविलोडितं चक्रवालं - जलपारिमाण्डल्यं यत्र स तथा तं, तथा षोडश कपाया एव स्वापदानि - मकरग्राहादीनि प्रकाण्डचण्डानि अत्यर्थ रौद्राणि यत्र स तथा तं, अनादिकमनवदग्रमनन्तं संसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण नित्रघ्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः, यथा चानुभवन्ति सुरगणविमानसौख्यानि अनुपमानि ततश्च कालान्तरेण च्युतानाम् 'इहेव'त्ति तिर्यग्लोके नरलोकमागतानामायुर्वपूर्वर्णरूपजातिकुलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं
For Park Use Only
मूलं [१४६]
“समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 258~
१४६ विपाकश्रुतं.
॥१२७॥