________________
आगम
(०४)
प्रत
सूत्रांक
[१४१]
दीप
अनुक्रम [२२२]
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
मूलं [१४१]
समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्वार्थाधिकारसमूहात्मकान्यध्ययनान्येव दश वर्गा द्रष्टव्याः, तत्र ज्ञातेष्वादिमानि दश यानि तानि ज्ञातान्त्रेय, न तेव्याख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि तेषु पुनरेकैकस्मिन् पञ्च पञ्च चत्वारिंशदधिकानि आख्यायिकाशतानि, तत्राप्येकैकस्थामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्च पञ्चाख्याविकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि किं सञ्जातं ? -' इगवीसं कोडिसयं लक्खा पण्णासमेव बोद्धवा । | १२१५०००००० । एवं ठिए समाणे अहिगयसुत्तस्स पत्थारो ॥ १ ॥ तद्यथा 'दस धम्मकहाणं वग्गा, तत्थ णं | एगमेगाए धम्मकहाए पञ्च पञ्च अक्वाइयासयाई एगमेगाए अक्खाइयाए पञ्च पञ्चवक्वाइयासयाई एगमेगाए उवक्खाइयाए पञ्च पञ्च अक्साइडबक्याइयासयाई' ति, एवमेतानि सम्पिण्डितानि किं संजातं १ 'पणवीसं कोडिसयं १२५००००००० एत्थ य समलक्खणाइया जम्हा । नवनाययसंबद्धा अक्खाइयमाझ्या तेणं ॥ १ ॥ ते सोहिजंति फुडं इमाउ रासीओ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमेयं विणिदिद्धं ॥ २ ॥ ' शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोट्यो भवन्तीति, अत एवाह - 'एवमेव सपुचावरेणं'ति भणितप्रकारेण गुणनशोधने कृते सतीत्युक्तं भवति 'अद्भुट्ठाओ अक्खाइयाकोडीओ भवन्तीतिमक्खाओ' ति आख्यायिकाः- कथानकानि एता- एवमेतत्संख्या भवन्तीतिकृत्वा आख्याता भगवता महावीरेणेति, तथा संख्यातानि 'पदसय सहस्साणी'ति किल पञ्च लक्षाणि षट्सप्ततिश्च सहस्राणि पदाप्रेण अथवा सूत्रालापकपदात्रेण संख्यातान्येव पदसहस्राणि भवन्तीत्येवं सर्वत्र भावयितव्यमिति ॥ ६ ॥
ज्ञाताधर्मकथा अंगसूत्रस्य शाश्त्रीयपरिचयः,
For Parts Only
~ 241 ~