SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१४१] दीप अनुक्रम [२२२] “समवाय" अंगसूत्र-४ (मूलं+वृत्तिः) मूलं [१४१] समवाय [प्रकिर्णका:], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीसमवायांगे श्री अभय वृचिः ॥११८॥ Jan Eat - | मेघकुमारो भगवता शैलकाचार्यो वा पन्थकसाधुना धीरीकृतः एवं धीरकरणकारणानि तत्राख्यायंते, किंभूतानि तानीत्याह- 'बोधनानुशासनानि' बोधनानि - मार्गभ्रष्टस्य मार्गस्थापनानि अनुशासनानि - दुःस्थस्य सुस्थतासम्पाद नानि अथवा बोधनं-आमन्त्रणं तत्पूर्वकान्यनुशासनानि बोधनानुशासनानि, तथा गुणदोषदर्शनानि-संयमाराधनायां गुणा इतरत्र दोषा भवन्तीत्येवंदर्शनानि वाक्यान्याख्यायन्त इति योगः, तथा दृष्टान्तान् ज्ञातानि प्रत्ययांश्च बोधिकारणभूतानि वाक्यानि श्रुत्वा 'लोकमुनयः' शुकपरिव्राजकादयो 'यथा' येन प्रकारेण स्थिताः शासने जरामरणनाशनकरे जिनानां सम्बन्धिनीति भावः, तथाऽऽख्यायन्त इति योगः, तथा 'आराहितसञ्जम'त्ति एत एव लौकिकमुनयः संयमं वलिताश्च जिनप्रवचनं प्रपन्नाः पुनः परिपालितसंयमाश्च सुरलोकं गत्वा चैते सुरलोकप्रतिनिवृत्ता उपयान्ति यथा शाश्वतं सदाभाविनं शिवं अवाधाकं सर्वदुःखमोक्षं निर्वाणमित्यर्थः, एते चोक्तलक्षणाः अन्ये च 'एवमादिअत्य'त्ति एवमादय आदिशब्दस्य प्रकारार्थत्वादेवंप्रकारा अर्था:-पदार्थाः, 'बित्थरेण य'त्ति विस्तरेण चशब्दात् कचित्केचित् संक्षेपेण आख्यायन्त इति क्रियायोगः 'नायाधम्मकहासु ण' मित्यादि कण्ठ्य मानिगमनात्, नवरं 'एकूणवीसमज्झयण' त्ति प्रथमश्रुतस्कन्धे एकोनविंशतिर्द्वितीये च दशेति, तथा 'दस धम्मकहाणं वग्गा' इत्यादी भावनेयं - इहै कोनविंशतिर्ज्ञाताध्ययनानि दान्तिकार्थज्ञापनलक्षणज्ञातप्रतिपादकत्वात्तानि प्रथम तस्कन्धे, द्वितीये त्वहिंसादिलक्षणधर्म्मस्य कथा धर्मकथा - आख्यानकानीत्युक्तं भवति, तासां च दश वर्गाः, वर्ग इति समूहः, तत | ज्ञाताधर्मकथा अंगसूत्रस्य शाश्त्रीयपरिचयः, For Pasta Lise Only ~ 240~ १४१ ज्ञा ताधर्मकथाधिकारः ॥११८॥ wary.org
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy