________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१४१]
दीप अनुक्रम
कथाच ज्ञाताधर्मकथाः, तत्र प्रथमं व्युत्पत्त्यर्थं सूत्रकारो दर्शयन्नाह-'नायाधम्मकहासु णमित्यादि, ज्ञाताना-उदाहरणभूतानां मेघकुमारादीनां नगरादीन्याख्यायन्ते, नगरादीनि द्वाविंशतिः पदानि कण्ठ्यानि च, नवरमुद्यानं-पत्रपुष्पफलच्छायोपगतवृक्षोपशोभितं विविधवेषोन्नतमानश्च बहुजनो यत्र भोजनार्थ यातीति, चैत्सं-व्यन्तरायतनं, बनख-15 ण्डोऽनेकजातीयैरुत्तमैवृक्षरुपशोभित इति, 'आपविजंति' इह यावत्करणादन्यानि पंच पदानि रश्यानि यावदयं सूबावययो यथा 'नायाधम्मे'त्यादि, तत्र ज्ञाताधर्मकथासु णमित्यलङ्कारे प्रव्रजितानां, क ?-'विनयकरणजिनखामिशासनवरे' कर्मविनयकरे जिननाथसम्बन्धिनि शेषप्रवचनापेक्षया प्रधाने प्रवचने इत्यर्थः, पाठान्तरेण 'समणाणं विणयकरणजिणसासणमि पवरे' किंभूतानां ?-संयमप्रतिज्ञा-संयमाभ्युपगमः सैव दुरधिगम्यत्वात् कातरनरक्षोभकत्वागम्भीरत्वाच पातालमिव पातालं तत्र धृतमतिव्यवसाया दुर्लभा येषां ते तथा, पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बला येते तथा तेषां, तत्र धृतिः-चित्तस्वास्थ्यं मतिः-बुद्धिर्व्यवसायः-अनुष्ठानोत्साह इति, तथा तपसि नियमः-अवश्यकरणं तपोनियमो नियत्रितं तपः स च तप उपधानं चानियत्रितं तप एव श्रुतोपचारः तपोनियमतपउपधाने ते एव रणश्च-कातरजनक्षोभकत्वात् सङ्ग्रामो 'दुद्धरभर'त्ति श्रमकारणत्वाहुर्द्धरभरच-दुर्बहलोहादिभारस्ताभ्यां भमा इति(एव)-भमका:-पराधुखीभूतास्तथा 'निस्सहगनिसट्ठाणं'ति निःसहा-नितरामशक्तास्त एवं निःसहका निसृष्टान-निसृष्टाका मुक्ताका ये ते तपोनियमतपउपधानरणदुर्धरभरभरकनिःसहकनिसृष्टाः, पाठान्त
BHARTICLES
[२२२
REarathi
For P
OW
antaram.org
| ज्ञाताधर्मकथा अंगसूत्रस्य शाश्त्रीयपरिचय:,
~237~