________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
--------- मूलं [१३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
997-6
प्रत सूत्रांक [१३९]
दीप
सिनामभेदोपचारान्नारकाः, ततध नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः-ओजजाहारादिराभोगिकानाभोगिकखरूपोऽनेकधा उच्छ्वासोऽनुसमयादिकालभेदेनानेकधा लेश्या कृष्णादिका पोढा आवाससंख्या यथा नरकावासानां चतुरशीतिर्लक्षाणीत्यादिका आयतप्रमाणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भवाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावता वा कालव्यवधानेनोत्पत्तिः च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणं, अवगाहना-शरीरप्रमाणमङ्गुलासंख्येयभागादि अवधिः-अङ्गुलासंख्येयभागक्षेत्रविषयादि वेदना-शुभाशुभखभावा विधानानि-भेदा यथा सप्तविधा नारका इत्यादि उपयोगः-आभिनिवोधिकादिर्वादशविधः योगः-पञ्चदशविधः इन्द्रियाणि-पञ्च द्रव्यादिभेदा विंशतिवर्षा श्रोत्रादिच्छिद्राद्यपेक्षयाऽष्टौ वा कपायाः-क्रोधादयः आहारथोच्छ्वासश्चेत्यादिन्द्वस्ततः कषायशब्दात्प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनिः-सचित्तादिकं जीवानामुत्पत्तिस्थानं, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्च मन्दरादीनां महीधराणामिति, तत्र विष्कम्भो-विस्तार उत्सेधः-उच्चत्वं परिरयः-परिधिः विधिविशेषा इति विधयो-भेदा यथा मन्दरा जम्बूद्वीपीयधातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तु जम्बूद्वीपको लक्षोथः शेषास्तु पञ्चाशीतिसहस्रोच्छ्रिता इति, एवमन्येष्वपि भावनीयं, तथा कुलकरतीर्थकरगणधराणां तथा समस्तभरताधिपानां-चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां
अनुक्रम [२२०]
CG
SantaratundiKI
समवाय अंगसूत्रस्य शाश्त्रीयपरिचय:,
~231~