________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१],
-------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
इति तारकस्तेन, तथा बुद्धेन जीवादितत्त्वं, तथा बोधकेन जीवादितत्त्वमेवापरेषां, तथा मुक्तेन वायाभ्यन्तरग्रन्धिव-1 न्धनात् , मोचकेन तत एव परेषां, तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेव
भाविजडत्वेन, तथा शिवं सर्वाबाधारहितत्वात् , अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावात् , अरुजम्-अविद्यमानदरोग, शरीरमनसोरभावात् , अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात् , अक्षयम्-अनाशं साद्यपर्यवसितस्थितिकत्वात्,
अक्षतं या परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात् , 'अपुनरावर्तकम् अविद्यमानपुनर्भवावतारं, तबीजभूतकाभावात् सिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयं, तिष्ठति यस्मिन् कर्मकृतिकाररहितत्वेन सदाऽवस्थितो भवति तत्स्थानं-क्षीणकर्मणो जीवस्य खरूपं लोकाग्रं वा, जीवखरूपविशेषणानि तु लोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं सम्प्रासुकामेन-यातुमनसा न तु तत्प्राप्तेन, तत्मासस्थाकरणत्वेन प्रज्ञापनाऽभावात् , प्राप्तुकामेनेति यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति, 'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तम' इति वचनादिति । तदेवमगणितगुणगणसम्पदुपेतेन भगवता 'इम' ति इदं वक्ष्यमाणतया प्रत्यक्षमासनं च द्वादशाङ्गानि यसिंस्तद् द्वादशाङ्गं गणिनः-आचार्यस्य पिटकमिव पिटकं गणिपिटकं, यथा हि वालचकवाणिजकस्य पिटकं सर्वसाधारभूतं भवति एवमाचार्यस्य द्वादशाङ्गं ज्ञानादिगुणरत्नसर्वखाधारकल्पं भवतीति भावः, प्रज्ञसं तीर्थकरनामकर्मोदयवर्तितया प्रायः कृतार्थेनापि परोपकाराय प्रकाशितं, 'तद्यथे
24-9-
15
दीप अनुक्रम
[१]
BFnauranorm
भगवन् महावीरस्य 'वीर शक्रस्तव' रूप विशेषणस्य व्याख्या:
~ 13~