________________
आगम
(०४)
प्रत
सूत्रांक
[३४]
दीप
अनुक्रम
[११०]
समवाय [३४],
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४]
११ सम०
“समवाय” - अंगसूत्र-४ ( मूलं + वृत्तिः )
मूलं [३४]
“समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अथ चतुस्त्रिंशत्तमस्थान के किमपि लिख्यते- 'बुद्धाइसेस' ति बुद्धानां तीर्थकृतामतिशेषा:-अतिशया बुद्धातिशेषाः, अवस्थितं - अवृद्धिस्वभावं केशाश्च-शिरोजाः श्मश्रूणि च कूर्चरोमाणि रोमाणि च शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः १ निरामया- नीरोगा निरुपलेपा-निर्मला गात्रयष्टि:-तनुलतेति द्वितीयः २ गोक्षीरपाण्डुरं | मांसशोणितमिति तृतीयः ३ तथा पद्मं च-कमलं [च] गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढं उत्पलं च-नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेषस्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छ्रासनिश्वासमिति चतुर्थः ४ प्रच्छन्नमाहारनीहारंअभ्यवहरणमूत्रपुरीषोत्सर्गों, प्रच्छन्नत्यमेव स्फुटतरमाह- अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसा इति पञ्चमं ५ एतच द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययं । तथा 'आगासगयं'ति आकाशगतं व्योमवर्त्ति आकाशगतं (कं) वा - प्रकाशमित्यर्थः, चक्रं - धर्मचक्रमिति पठः ६ एवमाकाशगं छत्रं छत्रत्रयमित्यर्थ इति सप्तमः ७ आकाशके- प्रकाशे श्वेतवरचामरे प्रकीर्णके इत्यष्टमः ८ 'आगासफालिआमय'त्ति आकाशमिव यदत्यन्तमच्छं स्फटिकं | तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ९ 'आगासगओ' त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः 'कुडभि'ति लघुपताकाः संभाव्यन्ते ताभिः परिमण्डितश्चासावभिरामश्च-अभिरमणीय इति विग्रहः 'इंदज्झओ' ति शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्वासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा 'पुरओ' ति जिनस्याप्रतो गच्छतीति दशमः १० 'चिट्ठन्ति वा निसीयन्ति वत्ति तिष्ठन्ति गतिनिवृत्त्या निषीदन्ति - उपविशन्ति 'तक्ख
तीर्थंकरस्य चतुस्त्रिंशत- अतिशया:
For Parts Only
~ 125 ~