SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति समवाय [१], ----------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक %95% मुइयाए समणे त्ति, भगवतेति पूर्ववत् , महांश्चासौ वीरश्चेति महावीरस्तेन, इदं च महासात्विकतया प्राणप्रहाणप्रवणपरीषहोपसर्गनिपातेऽप्यप्रकम्पत्वेन पीयूपपानप्रभुभिराविर्भावितम् , आह च–'अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं (से णाम) कए महावीरे'त्ति, कथम्भूतेनेत्साह-आदौ-प्राथम्येन श्रुतधर्ममाचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरस्तेन, तथा तरन्ति येन संसारसागरमिति तीर्थप्रवचनं तदन्यतिरेकादिह सङ्घस्तीर्थ तस्य करणशीलत्वात्तीर्थकरस्तेन, तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमित्यत आह-खयम्-आत्मनैव नान्योपदेशतः सम्यग्बुद्धो हेयोपादेयवस्तुतत्त्वं विदितवानिति खयंसम्बुद्धस्तेन, स्वयंसम्बुद्धत्वं चास्य न प्राकृतस्येव संभाव्यं पुरुषोत्तमत्यादयेत्यत आह-पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोद्गतत्वाद्-ऊर्ध्ववर्तित्वादुत्तमः पुरुषोत्तमस्तेन, अथ पुरुपोत्तमत्वमेव सिंहायुपमानत्रयेणास्य समर्थयन्नाह-सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्य तु | भगवतो वाल्ये प्रत्यनीकदेवेन भाप्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानामरशरीरकुजताकरणाच इत्यतस्तेन, तथा वरं च तत्पुण्डरीकं च वरपुण्डरीक-धवलं सहस्रपत्रं पुरुष एच वरपुण्डरीकं पुरुषवरपुण्डरीकं, धवलता चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वेश्च शुभैरनुभावैः शुद्धत्वादित्यतस्तेन, तथा वरश्चासौ गन्ध १ सहसम्मत्या श्रमणः । २ अचलो भयभैरवयोः क्षान्तिक्षमः परिषहोपसर्गाणां प्रतिमानो पारगो देवः कृतं महावीर इति । दीप अनुक्रम [१] ESCAR R urary ou श्रमण, भगवत्, महावीर आदि शब्दानाम व्याख्या, भगवन् महावीरस्य 'वीर शक्रस्तव' रूप विशेषणस्य व्याख्या: ~9~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy